________________
धर्म
119 11
Jain Education In
दाद्विचित्रसुखादिभावश्च सिद्ध इति । तस्मान्नास्त्येवात्मा परलोकगामी । तुरेवकारार्थी भिन्नक्रमश्च, स च यथास्थानं | योजितः । परलोकिनोऽभावाच्च परलोकस्यापि नारकत्वाद्यवस्थालक्षणस्याभावः । आह च - " एतावानेव लोकोऽयं, यावानिन्द्रियगोचर" इति । एवं च परलोकार्थ तपश्चरणाद्यप्यनुष्ठानमनर्थकम्, यदाह - "तपांसि यातनाश्चित्राः, संयमो | भोगवञ्चनेति” ॥ ४३ ॥ तदेवं भौतिकपुरुषवादिमतमुपन्यस्य साम्प्रतमेतद्दूपयितुमुपक्रमते -
भण्णइ ण जुत्तमेयं पच्चक्खं गोवलब्भइ जमुत्तं । जम्हा अवग्गहादी हंदि ससंवेयणपसिद्धा ॥ ४४ ॥
'भण्यते' तत्रोत्तरं दीयते, तत्र यत्तावदुक्तं 'प्रत्यक्षं नोपलभ्यते जीव' इति । एतन्न युक्तम्, कुत इत्याह- यस्मादवग्रहादयः - अवग्रहेहापायधारणाः हंदि स्वंसेवदनप्रसिद्धाः, तत्र अवग्रहणमवग्रहः, अनिर्देश्यसामान्यमात्रावगम | इत्यर्थः । उक्तं च-" सांमन्नत्थावग्गहणमुग्गहोत्ति” । तथा असद्भूतविशेषपरित्यागेन सद्भूतविशेषोपादानाभिमुखं ज्ञानमीहा । आह च - "भूयां भूयविसेसादाणच्चायाभिमुहमीहा " । तथा सद्भूतविशेषानुयायिलिङ्गदर्शनादसद्भूतविशेषप्रतिक्षेपेण सद्भूतविशेषावधारणमवायज्ञानम् । अवायज्ञानानन्तरमन्तर्मुहूर्त्त यावत्तदुपयोगादविच्यवनमविच्युतिः । १ सामान्यार्थावग्रहणमवग्रह इति । २ भूताऽभूतविशेषाऽऽदानत्यागाभिमुखमीहा ।
For Private & Personal Use Only
संग्रहणिः.
।। २७ ।।
www.jainelibrary.org