________________
ततस्तदाहितो यः संस्कारः संख्येयमसंख्येयं वा कालं यावत् स वासनेत्युच्यते । पुनः कालान्तरे कुतश्चित्ताशार्थदर्शनादिकात् कारणात्संस्कारस्य प्रबोधे सति यत् ज्ञानमुदयते 'तदेवेदं यत् प्रागुपलब्धमित्यादि' तत् स्मृतिः।। एतानि च त्रीण्यप्यविच्युत्यादीनि ज्ञानानि अविशेषेण धारणाशब्दवाच्यानि । यदाह-"तदैनंतरं तदत्थाविच्चवणं जो |य वासणाजोगो। कालंतरेण जो पुण अणुसरणं धारणा सा उ ॥१॥" इति । त एते अवग्रहादयो 'हंदीति' परामन्त्रणे खप्रकाश्यं प्रकाशयतः सतो ज्ञानस्य स्वयं प्रकाशनं खसंवेदनं तेन प्रसिद्धाः-प्रतीतखरूपाः खसंवेदनप्रसिद्धाः ॥४४॥ खसंवेदनप्रसिद्धत्वमेवैषां कार्यान्यथानुपपत्त्या दर्शयति
जं जायई सती मे उप्पन्नमिहासि णीलविन्नाणं ।
इयमणणुभूयविसया जुजइ नातिप्पसंगातो ॥४५॥ 'यत्' यस्मात् जायते स्मृतिः-अवग्रहादिरूपज्ञानविषया, स्मृतेरेवाकारमुपदर्शयति-'इह' विवक्षितनीलखलक्षणविषये नीलविज्ञानं ममोत्पन्नमासीदित्येवमाकारा । ननु यदीयं स्मृतिरुदयते ततस्तेषामवग्रहादीनां खसंवेदनप्रसिद्धत्वे किमायातमित्यत आह–इयमित्यादि', इयं-स्मृतिरननुभूतविषया यस्मान्न युज्यते-न घटते।कुत इत्याह-अतिप्रस
१ तदनंतरं तदर्थाविच्यवनं यश्च वासनायोगः । कालान्तरेण यत्पुनरनुस्मरणं धारणा सा तु ॥१॥
Jain Education inte
For Private & Personel Use Only
Kiww.jainelibrary.org