________________
धर्म
॥२८॥
गात प्रक्रान्तं विषयमतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गस्तस्मात् , अतिप्रसङ्गश्चात्यन्ताननुभूतपञ्चमभूतविषयाया अपि स्मृतेः संग्रहणिः दप्रसक्तिः । ततः स्मृत्यन्यथानुपपत्त्याऽवग्रहादयोऽनुभूता इति प्रतिपत्तव्यम् । अनुभवश्चैषां खसंवेदनेनेति सिद्धं खसंवे-18
दनप्रसिद्धत्वमेषामिति । तेन यदुच्यते मीमांसकैः-"अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थ इति” तदपास्तमवगन्तव्यम.IN | तथाहि-एते अवग्रहादयः खसंविदितखरूपा एवोदयमाना व्ययमानाश्च लक्ष्यन्ते। तत्र (तेच) कान्तर्भाव्यन्तां, किमर्थ |४ बुद्धौ वा?, नार्थे अध्यात्ममेषां परिस्पन्दनात् , अर्थानां चैवं परिस्पन्दायोगात् । नापि बुद्धौ, यतस्ता भवन्मतेन विद्यमाना अपि सत्यो न प्रकाशन्ते, तासामत्यन्तपरोक्षत्वेनाभ्युपगमात् । एते च प्रकाशमाना अनुभूयन्ते, न च बुद्धितज्ज्ञेयव्यतिरेकेणान्यः कश्चिदनुभवप्रक्रमेऽनुषङ्गो. विद्यते । तत एषामवग्रहादीनामित्थं प्रकाशमानानामभाव एव प्रसक्तः । स च दुरुपपादो, मा भूत्सर्वस्यापि निषेधप्रसङ्गः। तस्मात् बुद्धय एवैतास्ताश्च प्रत्यक्षा इति स्थितम् । अपिचस्वसंवेदनप्रत्यक्षेण बुद्धिमेनामवग्रहादिरूपामवेदयमानः कथमात्मनि निश्चिनुयात् ?-यथा बुद्धिर्ममोत्पन्नेति ।। आत्माधिकरणतया च तस्या अनिश्चये मया ज्ञातमिदं वस्त्विति आत्मानुभवितृकं वस्तु न ज्ञातं भवेत् । तथा च सति प्रतीतिविरोधः । अथोच्येत-यावदर्थो न ज्ञातो भवति न तावत् बुद्धिर्निश्चीयते, तेन सर्वोऽपि वुद्धिनिश्चयो
॥२८॥ |ऽर्थज्ञाननिवन्धनः, ततो योग्यदेशावस्थितार्थज्ञानाद्बुद्धिरात्मन्यस्तीत्यनुमीयते, तन्निमित्तत्वादर्थज्ञानस्येति, तदेतन्निविडजडिमाऽवष्टब्धान्तःकरणताविलसितम् । न हि नामार्थज्ञानमन्यदन्या च बुद्धिः, येनैवमुच्यमानमुपशोभेत, किंतु
ROCED URESS RECOREOGROCES
Jain Education in
For Private
Personel Use Only
शाww.jainelibrary.org