________________
IRCISCEREOGALORERADUAGRESS
कायदेवार्थज्ञानं तदेव बुद्धिरिति कथमनयोरनुमानानुमेयभावः। अथ मन्येथा-नार्थज्ञानं बुद्धेर्लिङ्गं, किं तर्हि ?, इन्द्रियाौँ । है तथाहि-यस्मादिन्द्रियमस्ति अर्थश्च, तस्माद्भवितव्यमिन्द्रियाश्रितया अर्थविषयया च बुद्ध्येति, तदप्ययुक्तम् , उभयो
रपि व्यभिचारित्वात् । यो ह्यर्थो यन्न व्यभिचरति स तस्य लिङ्गम् , इन्द्रियं च ज्ञानं व्यभिचरति, सत्यपि तस्मिन्निन्द्रिये तज्ज्ञानस्याप्रवृत्तेः । अन्यथा सर्वेन्द्रियाणां सदा सद्भावात्सर्वदा सर्वेन्द्रियविज्ञानोदयप्रसङ्गः । न चैतदृष्टमिष्टं वा, तस्मान्नेन्द्रियं ज्ञानाव्यभिचारि । अर्थोऽपि च ज्ञानं व्यभिचरत्येव, तस्मिन्सत्यपि तदभावात् । इतरथा हि असन्निहितश्चेदर्थो ज्ञानस्य हेतुरिष्यते, तर्हि सर्वस्य सर्वदा सर्वार्थवित्त्वप्रसङ्गः । सन्निहितश्चेत्ततः सन्निहितस्य सर्वस्यापि युगपद्धहणप्रसङ्गो, न चैतदिष्टं, तथानुभवाभावात् । युगपदपीन्द्रियार्थों ज्ञानं व्यभिचरतः, इन्द्रिय सन्निहितेषु चार्थेषु सर्वेषु युगपद् ज्ञानाभावात् , नेन्द्रियार्थों लिङ्गं किन्तु मन इति चेत् , तदयुक्तम् , यतस्तदपि पूर्व तावत्सिद्धस्य ज्ञानस्य सिद्धया तस्य युगपदनुत्पत्त्या खयमनुमातव्यम् , तच ज्ञानमद्यापि असिद्धमिति कुतः तत्सिद्धिर्यन तल्लिङ्गमुद्घोप्यतेति । व्यक्तोऽर्थो बुद्धेर्लिङ्गं, न तु यः कश्चित् , तेनोक्तदोषाभाव इति चेत्, ननु केयं व्यक्तिरर्थस्य ?, किं ज्ञानमुत ज्ञाननिबन्धनस्तद्वतः प्राकट्यलक्षणः खरूपविशेषः । तत्र यदि ज्ञानं ततस्तस्यासिद्धत्वात्तद्विशेषणस्यार्थस्थाप्यसिद्धिः। अथ ज्ञाननिबन्धनस्तद्गतखभावविशेषः, ननु ज्ञानासिद्धौ सोऽप्यसिद्ध इति कथं तद्विशिष्टोऽप्यर्थी बुद्धेर्लिङ्गं भवेदसिद्धत्वात् । अपिच-तस्यार्थगतखरूपविशेषस्य सर्वान्पुरुषान्प्रति साधारणत्वात् सर्वपुरुषेष्वपि
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org