SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ धर्म- संग्रहणि. ॥२९॥ RECORRORECAUCHHORAGARCAMONDA तद्विषयबुद्धीनामनुमानप्रसङ्गः । अन्यच्च-सत्यपि लिङ्गे सर्वदा बुद्धेः परोक्षत्वेनाभ्युपगमात् असिद्धया तया सह न कथञ्चिदपि लिङ्गस्य सम्बन्धावगमः, ततः कथं तद्विषयानुमानप्रवृत्तिः ?, तन्न बुद्धिः परोक्षा, किन्तु खसंविदितरूपैवेति । तथा यदप्युच्यते नैयायिकैः-ज्ञानं ज्ञानान्तरवेद्यं, प्रमेयत्वात् , घटवदिति,तदप्ययुक्तम् , ईश्वरज्ञानेन हेतोरनैकान्तिकत्वात् । अथोच्येत-अस्मदादिज्ञानापेक्षयैव ज्ञानस्य ज्ञानान्तरवेद्यत्वमभ्युपगम्यते, नेश्वरज्ञानापेक्षया, तद्धि अस्मदादिज्ञानात् विशिष्टम् , न च विशिष्टे दृष्टं धर्ममविशिष्टेऽपि योजयन् प्रेक्षावत्तां लभते, अशेषार्थग्राहित्वस्यापि निःशेषज्ञानानां तद्बासङ्गादिति । तदयुक्तम् , ज्ञानत्वस्यार्थग्रहणात्मक (त्मकत्व ) स्य चेश्वरज्ञाने विशिष्टे दृष्टस्य धर्मास्यास्मदादिज्ञाने खसंविदितत्वस्येव प्रतिषेधप्रसङ्गात् । स्यादेतत् , ज्ञानत्वस्यार्थग्रहणात्मकत्वस्य चाभावे तत् ज्ञानमेव न स्यात् तस्मानास्मदादिज्ञाने तत्प्रतिषेध इति । तदेतदन्यत्रापि समानम् , नहि खसंविदितत्वमपि विना ज्ञानस्य ज्ञानरूपता घटते, प्रदीपस्येव खप्रकाशकत्वमन्तरेण प्रदीपरूपता, ज्ञानस्य प्रदीपस्येव तत्स्वभावात्मकत्वात् । यदप्युक्तम्-अस्मदादिज्ञानस्य खसंविदितत्वाभ्युपगमे ईश्वरज्ञानवत् अशेषार्थग्राहित्वप्रसङ्ग इति, तदप्यसमीचीनम्, योग्यतया अवभासकत्वात् , प्रदीपवत् । नहि प्रदीपस्यादित्यवत् खपरप्रकाशकत्वाभ्युपगमेऽपि तद्वन्निखिलेष्वर्थेषु प्रकाशकत्वप्रसङ्गः, तथा अत्रापि । योग्यता च ज्ञानानां खावरणक्षयोपशमतारतम्यलक्षणा प्रतिपत्तव्या, तदभावे विषयग्रहणतारतम्याभावात् , निःशेषखावरणक्षयोत्थकेवलज्ञानवत् । तस्मादीश्वरज्ञानेन हेतोरनैकान्तिकत्वात् न Jain Education Inter For Private & Personel Use Only Kuw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy