SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 | पूर्वोक्तं साधनं साध्यं साधयितुं साधीय इति स्थितम् । अन्यच - ज्ञानं ज्ञानान्तरवेद्यं किं सहभूतज्ञानसंवेद्यम् | उत उत्तरकालभाविज्ञानसंवेद्यम् ? । तत्राद्यः पक्षोऽनुपपन्नः, युगपज्ज्ञानानामसंभवात् “युगपद्धि ज्ञानानुत्पत्तिर्मनसो | लिङ्गमिति वचनात्, द्वितीयोऽपि पक्षोऽनुपपन्नः, प्रागर्थज्ञानं पश्चात् ज्ञानज्ञानमिति सान्तरप्रतीतेरभावात् । किं च| ज्ञानज्ञानकाले तत्प्राक्तनमर्थज्ञानमनुवर्त्तते न वा ?, यद्यनुवर्त्तते ततः स एव ज्ञानयोगपद्यप्रसङ्गः अक्षणिकत्वानुषङ्गच, अथ नानुवर्त्तते, तर्हि कस्यैतत् ग्राहकं, ग्राह्यस्य प्रागेव विलीनत्वादिति कृतं प्रसङ्गेन || ४५ || तदेवमवग्रहादिज्ञानानां तद्विषयस्मृत्यन्यथानुपपत्त्या स्वसंवेदन प्रसिद्धत्वमभिधाय साम्प्रतं प्रस्तुतमभिसंधातुमाहधम्मा अवग्गहादी धम्मी एतेसि जो स जीवो तु। तप्पच्चक्खत्तणतो पञ्चक्खो चेव तो अस्थि ॥४६॥ न केवलमेते अवग्रहादयः स्वसंवेदनप्रसिद्धाः, किं तु धर्म्माश्च सदा परतन्त्रतयोपलभ्यमानत्वात् । यश्चैतेषामवग्रहादिधर्माणां धर्मी स एव जीवः । अन्यस्य वक्ष्यमाणयुक्त्या तद्धमित्वायोगात् । तुरेव कारार्थः । 'तो' तस्मादेतेषामवग्रहा|दिधर्माणां प्रत्यक्षत्वतोऽसौ जीवः 'प्रत्यक्ष एव' प्रत्यक्षप्रमाणेनोपलभ्यमानखभाव एव । नहि घटादीनामपि तद्गतरूपा| दिधर्म्म प्रत्यक्षीकारात् अन्यत् प्रत्यक्षेण उपलम्भनमस्ति ततो घटादिवत् तद्गतधर्म्म प्रत्यक्षीकारादसावपि जीवः प्रत्यक्ष एव । अपिच — लिङ्गलिङ्गिसंबन्धस्मरणादिनिरपेक्ष महमितिज्ञानं नीलादिज्ञानवत् प्रतिप्रमातृ संवेद्यमान For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy