________________
धर्म
त्वादप्रत्याख्येयम्, खसंविदितरूपत्वात् स्पष्टप्रतिभासत्वाच, तदन्यप्रत्यक्षतुल्यमात्मग्राहकमुदयते, तत्कथमुच्यते लासंग्रहणिः -प्रत्यक्षमात्मा नोपलभ्यत इति ?, अत्र व्याडिराह-" असति प्रत्यक्षाभिमान इति " असति-अविद्यमाने प्रत्यक्षगोचरतामतिक्रान्ते आत्मशब्दाभिधेये प्रत्यक्षग्रहणाभिमान एष आत्मवादिनां, यथा निमीलिताक्षस्यान्धकारग्रहणाभिमानः, यस्मात्तत् ज्ञानमेव तथोत्पद्यते भूतचतुष्टयावलम्बनं नात्मालम्बनमिति । " रूपा-| दिवत्खभावानवधारणादितीन्द्रदत्तः" यथा रूपादिषु तन्निर्भासं ज्ञानमुदयमानं खभावमवगमयति, नैवमहमितिज्ञानमात्मखरूपमसाधारणमवगमयति, न च प्रत्यक्षग्राह्ये वस्तुनि विप्रतिपत्तिरुपलभ्यते, तस्मादप्रत्यक्ष एवात्मेति व्याडीन्द्रदत्तौ । अत्रोच्यते-सम्यग्यायानभिज्ञताख्यापनमेतदनयोरिति पुरुषचन्द्रः। नहि तस्य सम्यग्यायाभिज्ञः कण्ठगतप्राणोऽप्येवमसमञ्जसत्वेन विद्वज्जनोपहास्यमभिधत्ते इति पात्रखामी। असमञ्जसता चाहमितिप्रत्यक्षस्यानात्मग्राहित्वानुपपत्तेः, अन्तर्मुखावभासित्वात् । यत् पुनर्भूतचतुष्टयालम्बनं तद्वहिर्मुखावभास्येव, तथा प्रतीयमानत्वात् । यदप्युच्यते "यथा निमीलिताक्षस्यान्धकारग्रहणाभिमान इति" तदपि न नो वाधकम् , प्रागू गृहीतान्धकारस्यैव निमीलिताक्षस्य प्राग्गृहीतस्यान्धकारस्योपस्थापनेनान्धकारग्रहणोपपत्तेः, जात्यन्धस्य तहणाभिमानाभावात् ,न चैवं प्राग्गृहीतस्यात्मन उपस्थापनेनाहंप्रत्ययादात्मग्रहणाभिमानः,तथाऽनभ्युपगमात् ,अभ्युप
॥३०॥ मश्चेदात्मसिद्धिप्रसङ्गः, एवं च "तत् ज्ञानमेव तथोत्पद्यते भूतचतुष्टयालम्बनं, नात्मालम्बनमिति" यदुक्तं तदप्य
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org