SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ समीचीनम् । अहमितिज्ञानस्य भूतचतुष्टयालम्बनत्वानुपपत्तेः, अरूपादिप्रतिभासात्मकत्वात्, अन्तर्मुखावभासितया प्रवृत्तेश्च । न चास्येत्थं प्रतिभासमानस्यापि अहंप्रत्ययस्य विषयान्तरकल्पना न्याय्या, अतिप्रसङ्गात् । अवादिप्रतिभासिनोऽपि ज्ञानस्य पृथिवीविषयत्वकल्पनया तदभावप्रसक्तेः। एतेन "रूपादिवत्स्वभावानवधारणादिति" यदुक्तं, तदपि प्रत्युक्तमवगन्तव्यम् , यतो यथा रूपादिषु तन्निर्भासं ज्ञानमुत्पद्यमानं रूपादीनां स्वभावमवगमयति, तथा अहमितिप्रत्ययोऽप्यात्मखरूपमवगमयत्येव, शरीरगुणग्रहणवैमुख्येनान्तर्मुखावभासित्वात् । यद्येवं तर्हि विषयनस्यात्मखरूपलक्षणस्य सदा सन्निधानात् आत्मनश्च सदा ग्रहणखभावत्वात् सदैवाहंप्रत्ययभावप्रसङ्गतो नित्यमात्म-2/ ग्रहणप्रसङ्ग इति चेत्, एतदपि यत्किंचिद् , आत्मनः सदा ग्रहणखभावत्वानभ्युपगमात् । तस्य हि सकर्मणः सतस्तत्कर्मक्षयोपशमसामर्थत एव तत्र तत्र विषयग्राहकत्वेन प्रवृत्तिः, तत्तत्कर्मप्रतिबन्धादेव च तदैवापरस्मिन् । विषये प्रवृत्त्यभाव इति न सदैवात्मग्रहणप्रसङ्गः। यदाह-“आत्मनाऽऽत्मग्रहेऽप्यत्र, तत्स्वभाव(स्य)योगतः। सदैवानहणं चास्य, विज्ञेयं कर्मदोषतः॥१॥” इति। यदप्युक्तं "न प्रत्यक्षग्राह्ये वस्तुनि विप्रतिपत्तिरुपलभ्यत" इति, तदप्ययुक्तम् ,भूतेष्वपि विप्रतिपत्तिदर्शनात् , तथाहि-"प्रकृतिविकाररूपाण्येवेति" केचित् , “अणुधणुकादिक्रमारब्धकार्यरूपाणी" त्यपरे "विज्ञानमात्र" मित्यन्ये । ननु चेयं न वास्तवी विप्रतिपत्तिः, प्रसिद्धव्यवहारनियमात् , तथाहिसर्वेऽपि सांख्यादयः शौचाद्यर्थ मृदायेव गृह्णन्ति, विज्ञानवादिभिरपि चैत्यकाद्यर्थ मृदायेव गृह्यत इति, अत्रो in Educanin धर्म. For Private & Personel Use Only * www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy