________________
धर्म- च्यते, यत्किंचिदेतत् , आत्मन्यपि समानत्वात् , तथाहि-सर्व एव वादिनो नास्तिका अपि यावत् देहस्य जड-2 संग्रहणिः.
है त्वात् तदतिरिक्तेनैव चैतन्यधर्मयुक्तेन दर्शनस्मरणप्रत्यभिज्ञानालोचनादि कुर्वन्ति, तस्मादत्रापि प्रसिद्धव्यव॥३१॥
हारनियमात् नेयं वास्तवी विप्रतिपत्तिः, ततोऽहंप्रत्ययलक्षणगम्यत्वादात्मा प्रत्यक्ष एवेति स्थितम् । ननु चाहं गुरुरहं गौरोऽहं कृश इत्यादयोऽप्यहमितिप्रत्यया अनुभूयन्ते, न चैतेषामात्मालम्बनत्वमात्मनो गौरत्वाद्यभावात् , तत्कथमहंप्रत्ययस्य यथार्थता व्यभिचारित्वादिति चेत्, न, एवं सति इन्द्रियजप्रत्यक्षस्याप्ययथार्थताप्रसक्तेः, तस्यापि द्विचन्द्रादिविषये भ्रान्तत्वेनोपलब्धत्वात् , अथ तत्प्रत्यक्षाभासं, न प्रत्यक्षमिति न तेन व्यभिचारः, यद्येवं तर्हि अत्रापि अहं गुरुरित्यादिकोऽहंप्रत्ययोऽहंप्रत्ययाभासो, न सम्यगहंप्रत्ययः, गुरु मे शरीरमित्यादिभेदप्रत्ययदर्शनादिति समानमेतदिति स्थितम् ॥४६॥ यदुक्तं-"अवग्रहादिधर्माणां धी जीव एव, स च तत्प्रत्यक्षत्वतः प्रत्यक्ष एवेति" तत्र पर आह
भूतेहिं चेतन्नं कायागारादिपरिणतेहितो।
तब्भावे भावातो मजंगेहिं व मदसत्ती ॥ ४७ ॥ कायः-शरीरं स एवाकारः कायाकारः आदिशब्दात्प्राणापानपरिग्रहः, तदुक्तम्-"कायाकारप्राणापानपरि
Jain Education Intern
For Private & Personel Use Only
www.jainelibrary.org