SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ACCORRESEARCCESSOC ग्रहवद्भ्यो भूतेभ्यस्तदुत्पद्यते, नाविशिष्टेभ्य" इति, तेन कायाकारादिना रूपेण परिणतानि यानि भूतानि तेभ्यः। समुत्पद्यते चैतन्यमिति साध्यम् , हेतुमाह-'तद्भावे' कायाकारादिपरिणतभूतसद्भावे, 'भावाद' उत्पादात्।सावधारणश्चायं निर्देशः, वाक्यस्य व्यवच्छेदफलत्वात् , द्विधा चेहावधारणम् , तद्भावे भावादेव, एतेन कारणान्तरापेक्षा-13 व्युदासः, तथा तद्भाव एव भावात् , तेन व्यतिरेकाभावे प्रतिक्षेपः। दृष्टान्तमाह-मद्याङ्गेभ्यो मदशक्तिरिवेति, यथा मद्याङ्गभावे भावात् मदशक्तिर्मद्याङ्गेभ्य उत्पद्यत इति मन्यते, तथा कायाकारादिपरिणतभूतसद्भावे चैतन्य-8 भावात्तथाभूतेभ्यो भूतेभ्यश्चैतन्यमुत्पद्यत इत्यपि मन्तव्यमिति भावः ॥४७॥ ततश्व सति तम्मि ससंवेदणरूवे किन्नोववज्जती एत्थ ? । धम्मीवि भूयसमुदयमित्तो जं तो कहं अत्थि ? ॥४८॥ सति तस्मिन् भूतेभ्यो जायमाने चैतन्ये वसंवेदनरूपे किमत्र व्यवहारोपयोगि नोपपद्यते ?, सर्वमुपपद्यते इति । भावः, न च वाच्यं-चैतन्यस्य जीवमन्तरेणान्यो धमी नोपपद्यत इति तदभ्युपगच्छता सोऽप्यभ्युपगन्तव्य इति । यस्माद्धर्म्यपि चैतन्यस्य भूतसमुदायमात्रमुपपद्यत एव, तथोपलम्भात् । 'तो' तस्मात्कथमुच्यते अवग्रहादिधर्माणां प्रत्यक्षत्वतः प्रत्यक्ष एव जीवोऽस्तीति ॥४८॥ अत्र प्रतिविधानमाह Jain Education Inten! For Private & Personel Use Only Www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy