________________
क्षुण्णं, यदा तु ते अपि वस्तुनी अतीताजातरूपतयाऽभिधत्ते तदा तद्विषयः सार्वज्ञज्ञानमिव सद्भतार्थविषयत्वात् । प्रामाण्यमश्नुत एव, अन्यथा अतीतकल्पान्तरवर्तिपादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवादिदेशना च सर्वथा । नोपपद्येत, तेषामभावेन तद्विषयज्ञानतन्निवन्धनशब्दप्रवृत्त्ययोगात् । स्यादेतत्-अनले अनलशब्दस्तदभिधानखभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्तते स जले नास्ति, जलानलयोरभेदप्रसङ्गात् , प्रवर्त्तते च संकेतवशात् जलेडप्यनलशब्दस्तत्कथं शब्दार्थयोर्वास्तवः संबन्ध उद्घष्यत इति, तदयुक्तं, शब्दस्यानेकशक्तिसमन्विततया उक्तदोषानुपपत्तेः, तथाहि-नानलशब्दस्य अनलवस्तुगताभिधेयपरिणामापेक्षी तदभिधान एवैकः खभावः, अपि तु समयाधानतत्स्मरणापेक्षितया विलम्वितादिश्तीतिनिबन्धनं, जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानखभावोऽपि, तथा ततस्तस्यापि प्रतीतेः, अन्यथा ततस्तथा तत्प्रतीत्यभावप्रसङ्गात् । ननु यद्येते शब्दाः तत्त्वतो वस्तुविषयास्तत्कथं चक्षुरादीन्द्रियसमुत्थबुद्धाविक शाब्दे ज्ञाने तस्य बस्तुनोन प्रतिभासः, चक्षुरादीन्द्रियगम्यमेव हि वस्तु नेतरत्, तस्यैवार्थक्रियासमर्थत्वात् , वस्तुनश्च तल्लक्षणत्वात् , न च तत् शाब्दे ज्ञाने प्रतिभासते, तस्मादयस्तुविषया एते । शब्दाः, तथा चात्र प्रयोगः-योऽर्थः शाब्दे ज्ञाने येन शब्डेन सह संसृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः, नावभासते चेन्द्रियगभ्योऽर्थः शाब्दे ज्ञाने शब्दसंसृष्ट इति, यो हि यस्य शब्दस्यार्थः स तेन शब्देन संसृष्टः शाब्दे ज्ञानेऽवभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिवन्धनत्वाद्वाच्यत्वस्येति, तदेतदयु
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org