________________
धर्म
॥ १३ ॥
%
,
| सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः संकेतद्वारेणाप्यतत्स्वभाववत्त्वे तयोर्भवति, तत्स्वभावाभ्युपगमे च सिद्धं नः समीहि - तं, तत्समानपरिणामस्य प्रवाहतोऽनादित्वात्, तत्रैव च तत्स्वभावतया संबन्धाभ्युपगमात् इत्थं चैतदङ्गीकर्त्तव्य| मन्यथाऽनाद्यनन्तत्वात् संसारस्य कदाचिदन्यतोऽपि धूमादीनां भावो भविष्यतीतिव्यभिचारचोदनं धूमधूमध्वजा - | दिष्वपि समानमित्यलं प्रसङ्गेन । ननु यदि वास्तवसंबन्धोपेतत्वादेते शब्दास्तात्त्विकार्थाभिधायिनस्तर्हि दर्शनान्तर - भिन्नेष्वर्थेषु तेषां प्रवृत्तिर्न घटेत, परस्य विरोधित्वेन तथाभूतानामर्थानामसंभवात्, तथातीतेऽनुत्पन्ने चार्थे प्रवृत्तिर्न स्यात्, तयोरसंभवात् न च स्यात्कस्याश्चिदपि वाचो मिथ्यार्थता, सद्भूतार्थमन्तरेण तस्याः प्रवृत्तेरेवानुपपद्यमानत्वादिति, अत्रोच्यते, द्विविधा हि शब्दाः, मृपाभावावर्गणोपादानाः सत्यभाषावर्गणोपादानाथ, तत्र ये | मृषाभाषा वर्गणोपादानाः स्वस्वनिमित्तवैचित्र्यवशात् प्रधानपरिणामरूपं जगत् ईश्वरेण कृतं जगत् इत्येवं नानारूपास्तेऽनर्थका एवाभ्युपगम्यन्ते, ते हि बन्ध्याऽवला इव तदर्थप्रात्यादिप्रसवविकलाः, केवलं तथाविधसंवेदनभोगमात्रफला इति न तैर्व्यभिचारः, यथा प्रमाणादितरस्य स्वरूपविपयादिपर्यालोचनया स्वतत्त्वावसायस्तथा सत्यभावावर्गणोपादानेभ्योऽपि जीवादिवस्तुवाचकेभ्यः शब्देभ्यस्तेषां मृषाभाषावर्गणोपादानानां शब्दानां स्वरूपविशेषावसायो भवति, तथाहि — दृश्यन्त एव केचिद्विमलमतयः श्रवणमात्रादपि मिध्यार्थत्वादिलक्षणं याथात्म्य- * मवधारयन्तः शब्दानामिति, अतीताजातयोश्च वर्त्तमानरूपतयाभिधायकः शब्दोऽनर्थक एवेष्यते इति न किञ्चिन्नः
॥ १३ ॥
Jain Education International
For Private & Personal Use Only
संग्रहणिः,
'www.jainelibrary.org