________________
CCCCCCC
स्वप्रकाश्यप्रकाशने संकेतमपेक्षते इति, नैप दोषः, यतो न सम्बन्धो विद्यमान इत्येतावतैवार्थप्रतीतिनिवन्धन, किंतु खात्मज्ञानसहकारी, प्रदीपवदेव, तथाहि-यथा प्रदीपः खात्मदर्शनसहकारी सन् रूपप्रकाशनखभावः, ततो-है। |ऽसति चक्षुषि न प्रकाशयति, खात्मदर्शनसहकार्यभावात् , तथा संबन्धोऽपि स्वात्मज्ञानसापेक्षः सन् प्रतीतिजननखभाव इति न संकेताद्यभावेऽर्थप्रतीतिं जनयति, तदा खात्मज्ञानसहकार्यभावात् , तत्वात्मज्ञानं हि तदाऽऽवरणक्षयक्षयोपशमाभ्यां, तौ च क्षयक्षयोपशमी संकेततपश्चरणभावनादिजन्यौ, अत एव कदाचित्संकेताभावेऽपि केषाञ्चित् तपश्चरणभावनादिभ्यः समुत्पन्नतज्ज्ञानाऽऽवरणकर्मक्षयक्षयोपशमभावानां शब्दादाच केवलादप्यवैपरीत्येन वाच्यवाचकभावसंबन्धावगमो भवति । तथा सर्व एव सर्वज्ञाः सुमेरुजम्बूद्वीपादीनान् प्रतिपद्यमानास्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथा प्ररूपणात् , अन्यैरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत् , तेषामपि तथाप्ररूपणे को हेतुरिति वाच्यं ?, तदन्यैरेवं प्ररूपणादिति चेत्, नन्वत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, न, सुमेाद्यर्थानां तदभिधायकानां च शब्दानां वास्तवसंवन्धसिद्धिप्रसङ्गात् , कल्पान्तरवर्तिभिरपि सर्वहस्तेपामर्थानां सुमेर्वादिशब्दवाच्यतया प्ररूपणात्, अनादित्वात्संसारस्य कदाचिकैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न, अतीन्द्रियत्वेनात्र प्रमाणाभावात् , तैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि प्रमाणाभावः समान एवेति चेत्, तदयुक्तम् , शाक्यमुनिना हि तावदिदानी सुमेर्वाद्यर्थः सुमेर्वादिशब्देन प्ररूपितः, न च
C
CCRORSCRESS
धर्म.३ Jain Education Intematon
For Private & Personel Use Only
Ri
w .jainelibrary.org