________________
१२॥
कृतकत्वानित्यत्वयोरिव व्यवस्थातो भेदेऽपि नान्तरीयकता स्यात् । अपि च-तादात्म्याभ्युपगमे क्षुरिकानलाचला-18 संग्रहणिः द दिशब्दोचारणे बदनपाटनदहनपूरणादिदोपप्रसङ्गः, तन्नायमभ्युपगमः श्रेयान् । नापि तदुत्पत्त्युपगमः, वस्तुनः शब्दो-त
त्पत्तावकृतसंकेतस्यापि पुंसः प्रथमपनसदर्शने सति तच्छब्दोचारणप्रसङ्गात् । शब्दाच वस्तूत्पत्ती विश्वस्यादरिद्रताप्रसङ्गः, तत एव कटककुण्डलायुत्पत्तेः । ततः प्रतिबन्धाभावान्न शब्दस्यार्थेन सह नान्तरीयकतानिश्चयः । तदभा
वाच न शब्दानिश्चितार्थप्रतिपत्तियुक्ता, अपि त्वनिवर्तितशङ्कत्वादस्ति नवेति विकल्पितार्थप्रतिपत्तिः । न च विक||ल्पितमुभयरूपं वस्त्वस्ति यत्प्राप्यं सत् शब्दस्य विषयः स्यात् । प्रवर्त्तमानस्य तु पुरुषस्यार्थस्य पृथिव्याममजनादव-14
श्यमन्यत् ज्ञानान्तरं तत्प्रतिपत्तिनिमित्तभूतमुत्पद्यते, यतः सोऽवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वाभाव इति"। तदेतदयुक्तमवगन्तव्यं, विषयवत्त्वाभावासिद्धेः । परोक्षस्य तद्विषयत्वात् । यत्पुनरुक्तं- नैवार्थेन सह शब्दस्य नान्तरीयकतानिश्चयोऽस्ति, प्रतिबन्धाभावात् , तादात्म्यतदुत्पत्त्यनुपपत्तेरिति' तदसमीचीनम् । वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयोपपत्तेः । शब्दो हि विवक्षितवाद्यवस्तुवाचकखभावतया तन्नान्तरीयकः । ततश्च शब्दान्निःशङ्किताबाधितार्थप्रतिपत्तौ नातोऽस्ति नवेति विकल्पितार्थप्रतिपत्तिः, येन विकल्पितस्याभावात्तदप्रापयत् शाब्दं ज्ञानमविषयं भवेत् । स्यादेतत् , यदि वास्तवः संवन्धोऽथैः सह शब्दानां तर्हि किमिदानी संकेतेन !, स ॥१२॥ हि संवन्धो यतोऽर्थप्रतीतिः, स चेद्वास्तवो निरर्थकः संकेतः, तमन्तरेणापि तत एवार्थप्रतीतिसिद्धेः । नहि प्रदीपः
Jan Education
For Private Personal Use Only