________________
SARAM
25
कुनयमतं यदवस्तुविषयोऽपि वस्त्वध्यवसायनिवन्धनं शब्द इति । तदुक्तम्-" यदेव च वदन्निस्तत्त्वमारोपितम् ।। यस्तत्त्वं जगते जगाद विजयीति” । अतस्तद्यवच्छेदार्थमिदं विशेषणमिति । एतेन यदुच्यते-"प्रमेयं हि वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया व्यासं, ततो यद्विपयवन्न भवति, न तत् प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति च विषयवत् शाब्दं ज्ञानमिति । तथाहि-द्विविधो विषयः, प्रत्यक्षः परोक्षश्च । तत्र न तावत्प्रत्यक्षः शाब्दज्ञानस्य विषयः, यस्य हि प्रतिपत्तुः संबन्धिनो ज्ञानस्य प्रतिभासेन स्फुटाभनीलाद्याकाररूपेण योऽनुकृतान्वयव्यतिरेकोऽर्थः स तस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारो नापरः । तदर्थान्वयव्यतिरेकानुविधायि च स्फुटप्रतिभासं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात् । तन्नो प्रत्यक्षोऽर्थों |ऽनेकप्रकारप्रतिपत्तिविषयो, यः शाब्दप्रमाणस्यापि विषयः कल्प्येत । नापि परोक्षोऽर्थस्तस्य विषयो, यतोऽन्वयव्यतिरेकनिश्चिततन्नान्तरीयकार्थदर्शनात्परोक्षस्यार्थस्य प्रतिपत्तिः,यथाधूमदर्शनाद्वः,अन्यथाऽतिप्रसङ्गात् । न चार्थेन सह
शब्दस्य नान्तरीयकता अन्वयव्यतिरेकाभ्यां निश्चिता, प्रतिबन्धाभावात् , तादात्म्यतदुत्पत्त्यनुपपत्तेः । तथाहि* अर्था बाह्या घटादयो न रूपं शब्दानां, नापि शब्दो रूपमर्थानां, तथाप्रतीतेरभावात् , तत्कथमेषां ? तादात्म्यं, येन
१ एतत्खण्डं चेदं पद्यम्-बुद्ध्या कल्पिकया विविक्तमपरैर्यदूपमुल्लिख्यते, बुद्धिों न बहिर्यदेव च वदन्निस्तत्त्वमारोपितम् । यस्तत्त्वं जगते 18जगाद विजयी निःशेषदोषद्विषो, वक्तारं तमिह प्रणम्य शिरसाऽपोहः स विस्तायते।।
Jan Education in
For Private
Personel Use Only
www.jainelibrary.org