________________
धर्म
संग्रहणि
कुलिशमिव कुलिशं मिथ्यात्वशैलकुलिशम् । अज्ञान-विशिष्टसंविदभावस्तदेवाप्रतिपत्तिहेतुत्वसाम्यात्तमओघ इव ॥११॥
अज्ञानतमओघः तद्विध्वंसने भास्करभूतं अज्ञानतमओघभास्करभूतम् । चरणं व्रतादि, उक्तं च-" वयसमणधम्मसंजमवेयावचं च बंभगुत्तीओ। नाणाइतियं तवकोहनिग्गहा इइ चरणमेयं ॥१॥" । तदेव मुक्तिहेतुतया रत्नमिव चरणरत्नं तस्याकरनिभमन्यत्र तदसंभवात् चरणरत्नाकरनिभम् । तथा-अचिन्त्यचिन्तामणिकल्पं, चिन्तातिक्रान्तानाबाधसकलदेशकालावलम्बिवस्तुस्तोमावगमनिवन्धनत्वात् । तदुक्तम्-" अन् यतरमिह एत्तो अन्नं किं अस्थि जीवलोगम्मि? जंजिणवयणेणत्था तिकालजुत्ताविनजंति॥१॥"त्ति । तथा शिवो-मोक्षस्तस्मिन् यत्सुखं तदेव फलं तस्य | प्रार्थ्यमानस्य अवन्ध्यशक्तियुक्ततया कल्पतरुरिव शिवसुखफलकल्पतरुः। 'जहट्टियासेसनेयपडिबद्धंति' यथास्थि तैरशेष
यैस्तद्गोचरैः सह वाच्यवाचकभावसंबन्धेन प्रतिबद्धं-संबद्धं यथास्थिताशेषज्ञेयप्रतिबद्धम् । नन्वचिन्यचिन्तामणिकपाल्पमित्यनेनैव गतार्थत्वादपार्थकमिदं विशेषणम् । तथाहि-अचिन्त्यचिन्तामणिकल्पत्वमनावाधवस्तुस्तोमावगमनिद बन्धनत्वं व्याख्यातं, तथा च सति सामर्थ्यादवगम्यत एव अस्य यथास्थिताशेषज्ञेयप्रतिबद्धत्वम् , अन्यथा तन्निवन्धनस्य
वस्तुस्तोमावगमस्थानाबाधकत्वायोगादिति, न, कुनयमतव्यवच्छेदफलतयाऽस्य सार्थकत्वात् । अस्ति ह्येवंविधमपि ___१ व्रतश्रमणधर्मसंयमवैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रिकं तपःक्रोधनिग्रहा इति चरणमेतत् ।। २ अद्भुततरमिह एतस्मादन्यत्किमस्ति जीवलोके ? । यज्जिनवचनेनार्थानिकालयुक्ता अपि ज्ञायन्ते ।। १ ।। इति
२-oXCCCCCC
Jain Education Inter
For Private & Personel Use Only
R
ww.jainelibrary.org