________________
धर्म
॥१९३॥
Jain Education Int
अथोच्येत - ज्ञानमात्मनो गुणो नत्वन्येषामित्येतत् खभावकृतमेव - खभावनिबन्धनमेव, यत् - यस्मात्स्वभावत एव | लोके प्रतिनियता गुणा भवन्तीति । अत्राह - एषोऽपि च खभावपक्षोऽनिमित्तो - निमित्तमन्तरेण कल्प्यमानः सप्रतिपक्षः - खभावान्तरकल्पनाप्रसङ्गलक्षणप्रतिपक्षयुक्तः ॥ ४७८ ॥ सप्रतिपक्षत्वमेव भावयति
एते विभिन्नं नाणं आयाउ तग्गुणो तहवि ।
तोचि णन्नगुण तहासहावातों किं माणं ? ॥ ४७९ ॥
एकान्तेनात्मनः सकाशात् विभिन्नं ज्ञानं तथाप्येतत्तथाखभावात्तद्गुण - आत्मगुणो न पुनरत एव भेदाविशेषात् अन्यगुणोऽपीत्यत्र किं मानं प्रमाणं ?, नैव किंचित् । ततोऽन्यगुणतयाऽपि कल्पनाप्रसङ्गात् न यथोक्तखभावपक्षः | श्रेयानिति ॥ ४७९ ॥ यच्चोक्तम्- 'पइनियया चेव जं गुणा लोए' इति तदूषयितुमाह
1
पतिणियतता तु लोए गुणाण दिट्ठा निमित्तभेदेण ।
एतभेदखे ण य जुज्जइ तमविसेसाओ ॥ ४८० ॥
प्रतिनियतता तु लोके गुणानां दृष्टा निमित्तभेदेन - निमित्तविशेषेण कथंचिदभेदलक्षणेन । तथाहि — यस्य गुणस्य येन सह कथंचिदभेदोऽस्ति स तत्र प्रतिनियतो भवति, एकान्तभेदपक्षे चाङ्गीक्रियमाणे, चशब्दो भिन्नक्रमः स च
For Private & Personal Use Only
संग्रहणिः
॥१९३॥
www.jainelibrary.org