________________
AALOCCCCCCCCOCOCCURRENCH-MOREA
नियताश्रयतया च व्याप्सा, ततो व्यापकानुपलब्ध्या ज्ञानाद्भिन्नरूपाद्विपक्षाद् व्यावर्त्तमाना ज्ञानाभिन्नवस्त्वाश्रयतया व्याप्यत इति विवक्षितहेतुसाध्ययोः प्रतिबन्धसिद्धिरिति ॥४७६॥ यदुक्तं भेदाविशेषात् घटादावपि सा प्रसज्येतेति, तत्र परः समाधानमाह
तेसिं न तेण जोगो अन्नगुणत्तातो तेण सा नत्थि ।
अविसिटे अन्नत्ते एतं पि य किंकयं एत्थ ? ॥ ४७७ ॥ तेपा-घटादीनां न तेन-ज्ञानेन सह योगः-संबन्धोऽस्ति, अन्यगुणत्वात् , ज्ञानं ह्यात्मनो गुणो न घटादीनां, ततस्तत् तेनैव सह संबध्धं न तु घटादिभिः, तेन कारणेन योगाभावलक्षणेन सा-संवित्संविदानता न तेषां घटादीनामस्ति, न तु ज्ञानाद्भिन्नरूपत्वेन, तन ज्ञानाभिन्नवस्त्वाश्रयतया संवित्तेाप्तिरिति । अत्राचार्य आह-'अविसिट्टे इत्यादि' अविशिष्टे अन्यत्वे एतदपि-ज्ञानमात्मनो गुणो न घटादीनामितीदमपि अत्र-विचारप्रक्रमे किंकृतं-किनिबन्धनं १, नैव सनिबन्धनमिति, वाङ्मात्रमेतदिति भावः ॥ ४७७ ॥ अत्र परस्प मतमाशङ्कमान आह
अह उ सहावकतं चिय पतिणियता चेव जं गुणा लोए । एसो वि हु अनिमित्तो सहावपक्खो सपडिवक्खो ॥ ४७८ ॥
MANCHCHOCOCCSCSC
-.
2
5
Jain Education
धर्म.३३
For Private & Personel Use Only
www.jainelibrary.org