SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ s यथास्थानं योजितः, न युज्यते तत्-प्रतिनियतताया निमित्तं किंचित् । कुत इत्याह-'अविशेषात्' आत्मघटादीनां ज्ञानाद्भिन्नरूपत्वेन विशेषाऽभावात् ।। ४८० ॥ परो भेदाविशेषेऽपि निमित्तमादर्शयति समवाया संबंधो तेसिं तस्सेव तेहि णण केण?। जति अन्नेणणवत्था अह उ सयं किन्न तेसिं पि? ॥ ४८१ ॥ । समवायात्सकाशात् यः परस्परं तयोर्ज्ञानात्मनोः संबन्धः स भेदाविशेषेऽपि प्रतिनियततायाः-ज्ञानमात्मन एव गुणो नान्येषामित्येवंरूपाया निमित्तमिति चेत् । अत्राह-'तस्सेवेत्यादि' तस्यैव समवायस्य ताभ्यां समवायिभ्यां सह केन संबन्धः स्यात् ?,किमन्येन समवायेन किंवा वरूपेणैव ?। तत्र यद्यन्येनेति पक्षस्तबनवस्था, तस्यापि खसमवायिभिः सह संवन्धस्य तदन्यसमवायबलादेव भावात्, तस्याप्यन्यत इति । अथ, तुः पूरणे, स्वयं खरूपेणेति पक्षस्ततः किन्न तयोरपि-ज्ञानात्मनोः गुणगुणिनोः खयं संबन्ध इप्यते ?, किमेतदर्द्धजरतीयमिति ॥४८१॥ अत्र पराभिप्रायं दूषयितुमाह सिय सो उभयसहावो अप्पाणं ते य संघडावेति । सपरप्पकासधम्मो तहासहावा पदीवोव ॥ ४८२ ॥ Jain Education Inter For Private & Personel Use Only Plaw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy