SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१९४॥ Jain Education In स्यादेतत्, समवायः उभयखभावः - खपरसंबन्धनखभावस्तत आत्मानं समवायिभ्यां सह तौ च - समवायिनौ परस्परं घटयति-संबन्धयति । अत्रैव दृष्टान्तमाह — 'सपरेत्यादि' यथा प्रदीपस्तथास्वभावत्वात् खपरप्रकाशकरणस्वभावः तद्वदेषोऽपि समवायः स्वपरसंबन्धनखभाव इति न तदन्यसमवायापेक्षणेनानवस्थादोष इति ॥ ४८२ ॥ आह ते चेत्र किन्न ? एवं तहासहावविरहा ण माणमिह । न घडइ चिंतितं तुह पक्खे दीवणातं पि ॥ ४८३ ॥ तावेव - ज्ञानात्मलक्षणौ गुणगुणिनौ किन्न एवं - खभावत एव परस्परं संबद्धौ भवतो ?, येन तदन्यः समवायः परिकल्प्यते इति । पर आह - 'तहासहावविरहा' तथास्वभावविरहात् । सूरिराह - 'न माणमिह' इह ज्ञानात्मनोः खत एव संबन्धे न खभावः समवायस्य त्वस्तीत्यत्र न किमपि मानं प्रमाणं, न च प्रमाणमन्तरेण तत्त्वव्यवस्था, मा प्रापदतिप्रसङ्ग इति । यदपि च प्राक् दीपज्ञातमुदीरितं तदपि युक्तत्या चिन्त्यमानं सर्वथा तव पक्षे न घटत एव ॥ ४८३ || अघटनमेव भावयति जमभिन्नो सपगासा सो सपरपगासगो णयाभेदो । For Private & Personal Use Only संग्रहणिः, ॥ १९४॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy