________________
Jain Education Int
विकल्प इति, तेन निर्विषयत्वेऽपि ततो नियमेन प्रवृत्त्याद्युपपद्यते इति मन्येथाः । अत्राह - वस्त्ववस्तुनोः को नु प्रतिबन्धो ?, नैव कश्चित् संबन्धस्य वस्तुरूपोभयनिष्टत्वात् नहि घटस्य खरविषाणेन सह कश्चित् संबन्धोऽस्तीति, | अवस्तु चासौ विकल्पस्तदव्यतिरिक्तस्य प्रतिभासस्यावस्तुत्वेनाभ्युपगमात् । सोऽपि विकल्पः कथंचित् स्वसंवित्यपेक्षया वस्तु इष्यते, तेनायमदोष इति चेत् । अत्राह - 'तो' ततो नावस्तु, स्वसंवित्त्यतिरेकेण तस्य रूपान्तराभावात् । दूषणान्तरमाह - विरोधो वा वस्तुत्वावस्तुत्वयोः परस्परपरिहारेण व्यवस्थितयोरेकत्रासंभवात् ॥ ३५८ ॥ उपसंहारमाह
तम्हा अवग्गहादी कहंचि भिन्नत्थगाहगा णेया । अणुहव संधाणेणं एवं ववहारसिद्धीओ ॥ ३५९ ॥
यत एवं तस्मात् पूर्वपूर्वानुभवसंधानेन प्रवर्त्तमाना एते अवग्रहादयो ज्ञानविशेषाः कथंचित् गृह्यमाणार्थोत्तरविशेषापेक्षया भिन्नार्थग्राहका ज्ञेयाः, न पुनर्गृहीतग्राहिणो नापि निर्विषयाः । कुत ? इत्याह-एवं व्यवहारसिद्धितो (तः) एवं पूर्वपूर्वानुभवसंधानेन कथंचित्तदर्थोत्तरोत्तरधर्मापेक्षया भिन्नार्थग्राहकत्वेन व्यवहारस्य - प्रवृत्त्यादिलक्षणस्य सिद्धे१ धर्मोपेक्षयेति कपुस्तके |
For Private & Personal Use Only
wwww.jainelibrary.org