SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ३७ ॥ Jain Education Inter च सति चत्वार्येव पृथिव्यादीनि तत्त्वानीति' तत्त्वसंख्या नियमव्याघातप्रसङ्गः । सूत्रोक्ततत्त्वानामुपलक्षणत्वाददोष इति चेत्, न, तथा सत्यात्मप्रतिषेधानुपपत्तेः । एतदेवाह - - अभ्युपगमे च तत्त्वान्तरस्य क्रियमाणे प्रद्वेषः | स्वकृतान्तस्य-भूतव्यतिरिक्त आत्मा नास्तीत्यादिकस्य भवत आपद्यते । कुत इत्याह-- ध्वनिमात्रेणैव भेदात्, तथा हि-त्वया भूतव्यतिरिक्तं धम्मिरूपं चैतन्यमस्तीत्यभ्युपगम्यते, अस्माभिस्तु तदेव भूतातिरिक्तं जीव इति । यदप्युक्तं 'तच्च घटादिवत् भूतेभ्य उत्पद्यत' इति, तदप्ययुक्तं, कुत इत्याह-- 'न येत्यादि' न च भूतेभ्यस्तस्य चैतन्यस्योत्पत्तिर्युज्यते, तत्साधकप्रमाणाभावात् न हि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे, तथा हि-न तावत्प्रत्यक्षम्, अतीन्द्रियविषये तस्याभावात् न हि उत्पन्नमनुत्पन्नं वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति तस्य स्वयोग्यसन्निहितार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्त्तत्वेन तदयोग्यत्वात् न च भृतानामहं कार्यमित्येवमात्मविषयं भूतकार्यत्वं प्रत्यक्षमवगन्तुमलं, कार्यकारणभावस्यान्वयव्यतिरेक निश्चयसमधिगम्यत्वात्, व्यतिरेकनिश्चयनिबन्धनस्य चानुपलम्भस्य तत्राभावात् न च तदुभयातिरिक्तः कश्चिदन्वयी तदुभयान्वयव्यतिरेकज्ञाताऽभ्युपगम्यते, आत्मसिद्धिप्रसङ्गात्, नाप्यन्यत्प्रमाणं, तस्यानभ्युपगमात्, 'प्रत्यक्षमेवैकं प्रमाणं, नान्यदितिवचनात् ' अभ्युपगमेऽपि ततो विवक्षितार्थप्रतीत्यसिद्धिः, अधिकृत चैतन्य वस्तुनोऽतथारूपत्वात् । तथाहिन चैतन्यं पृथिव्यादिभूतमात्रकारणं, तथा सति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात्, , तेषामपि तज्जननखभावत्वात्, For Private & Personal Use Only संग्रहणिः, ॥ ३७ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy