________________
सदा सर्वत्र च घटादौ पुरुषादिष्विव व्यक्तचैतन्योत्पादो भवेत् , निमित्ताविशेषात् , एवं च सति घटादीनां पुरुषादीनां |चाविशेषः स्यात् , स च प्रत्यक्षवाधित इति यत्किंचिदेतत् । स्यादेतत् , 'कायाकारप्राणापानपरिग्रहवयो भूतेभ्यस्तदुत्पद्यते नाविशेष्टेभ्य' इति वचनान्न नः पूर्वोक्तातिप्रसङ्गदोषावकाश इति, तदयुक्तम् , त्वन्मतेन कायाकारपरिणामस्यैव युक्त्यनुपपत्तेः, तथाहि-स कायाकारपरिणामः किं पृथिव्यादिमात्रनिवन्धनः, किं वा वस्त्वन्तरनिमित्तः उताहेतुक इति, यद्याद्यः पक्षस्ततस्तस्याः पृथिव्यादिसत्तायाः सर्वत्राविशेषात् सर्वत्रापि कायाकारपरिणामप्रसङ्गः, तथाविधसाम्यादिभावसहकारिकारणवैकल्यान्न सर्वत्र तत्परिणामप्रसङ्ग इति चेत्, तन्न, यस्मात्सोऽपि साम्यादिभावो न वस्त्वन्तरनिवन्धनः, तत्त्वान्तरापत्तिप्रसङ्गात्, किंतु पृथिव्यादिसत्तामात्रनिवन्धनः, अतस्तस्यापि सर्वत्राविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति । अथ वस्त्वन्तरनिमित्त इति पक्षः, तदप्ययुक्तं, तथाभ्युपगमे सत्यात्मसिद्धिप्रसङ्गात् , तथाभूतवस्त्वन्तरयोगादेव हि विशिष्टकायाकारण]परिणामभाव उपपद्यते नान्यतः, तथा च सति न कश्चिद्दोष इति । अथाहेतुकस्तर्हि सदाभावादिप्रसङ्गः, 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादितिन्यायात्', तन्न वन्मतेन कायाकारपरिणामो घटते, तदभावे तु दूरोत्सारितमेव प्राणापानपरिग्रहवत्त्वममीषां भूतानामिति ॥ ६२॥ इतश्च न भूतेभ्यश्चैतन्यस्योत्पत्तियुज्यते यत आह
जं कारणाणुरूवं कजं भूयाणमणणुरूवं च ।
SAMOCRK***
Jain Education
a
l
For Private & Personel Use Only
|www.jainelibrary.org