________________
धमे.
चेतन्नं भणियमिणं सिय संगसरेहि वहिचारो ॥ ६३ ॥
संग्रहणिः .
॥३८॥
ACCAKACANCE
'यत्' यस्मात्कारणानुरूपं कार्य भवत् दृष्टं, यथा मृत्पिण्डस्य घटः, चैतन्यं च भूतानामननुरूपं, एतच्चाननुरूपत्वं प्रागेव 'बोहसहावममुत्तमित्यादिना भणितं, तस्मान्न चैतन्यं भूतानां कार्यम् । स्यादेतत् , शृङ्गशराभ्यामिह व्यभिचारः, तथाहि-शृङ्गस्य कार्य शरो भवति, न च स तदनुरूप इति, अपि च-सुप्तप्रबुद्धस्य दृश्यते तावचैतन्यं, न च तत्तदन्यचैतन्यपूर्वकं, सुपुप्ता(त्य)वस्थायां चैतन्यस्याभावात् , उपलभ्यस्य सतस्तदानीमनुपलम्भात् , तथापि चेत्तदा तत्कल्पना, तीतिप्रसङ्गः, न चाहेतुकं तत् , सदाभावादिप्रसङ्गात् , नाप्यन्यनिमित्तं, तस्याप्रतीयमानत्वात् , किन्तु कायनिमित्तम् । न चेदमपि वक्तुं युक्तं-भूतानां चैतन्यापेक्षया अत्यन्तलक्षण्यात्कथं तेभ्यस्तदुत्पत्तिरिति, लोके भिन्नजातीयादपि कारणाद्भिन्नजातीयकार्योत्पत्तिदर्शनात्, तथाहि-सूक्ष्माप्रदेशपरमाणुभ्यः स्थूरसप्रदेशघटादिकार्यभावो दृश्यत एवेति, नापि प्रत्येकावस्थायामेकान्तेनासतश्चैतन्यस्य समुदितावस्थायां कथं तेभ्य उत्पादोऽन्यथा पञ्चमभूतस्याप्युत्पत्तिर्भवेदित्यभिधातव्यं, पर्यायेण व्यभिचारात्, स हि प्रागवस्थायामसन्नपि प्रादुर्भवन्
दृष्टो, न चासत्त्वाविशेषेण तत्रान्यभावप्रसङ्गः, कारणशक्तिनियमात् , तद्वदत्रापि भविष्यतीति भूतकार्यता चैतन्यमास्येति ॥ ६३ ॥ अत्रोच्यते-तत्र यत्तावदुक्तं 'शृङ्गशराभ्यां व्यभिचार' इति, तत्राह
-SAMROCALCCAMGAR
॥३८
Jain Education Intel
For Private & Personel Use Only
(Huw.jainelibrary.org