________________
Jain Education Inte
संगपि भूयसमुदयरूवं हंदि उ सरोऽवि तह चेव । इ अरूवत्तं चि भेदे तत्तंतरावती ॥ ६४ ॥
यस्मात् शृङ्गमपि भूतसमुदायमात्रं, 'हंदी' त्युपप्रदर्शने, यदुक्तमनयोरानुरूप्यं नास्तीति तदेतदानुरूप्यमिदानीं प्रदर्श्यत इत्यर्थः । शरोऽपि तथा चैव भूतसमुदायमात्रं शृङ्गैकदेशवर्तिभूतसमुदायस्यैव शरतया परिणममानत्वात् इति । तस्मादुभयोरपि शृङ्गशरयोरनुरूपत्वमेव, शरस्य शृङ्गलक्षणस्वकारणधर्म्मानुगम संभवात्, अन्यथा कारणधर्माननुगमेन शरस्य भेदेऽत्यन्तवैलक्षण्येऽङ्गीकृते सति अत्यन्तासत एव तस्योत्पादोऽभ्युपगतः स्यात्, तथा च सति असत्त्वाविशेषात् शरस्येव तत्त्वान्तरस्यापि पञ्चमभूतादेरापत्तिः प्रसज्येतेति ॥ ६४ ॥ अत्र परस्याभिप्रायमाह - सिय चित्तं दिनं सहावभेदेण भूतकज्जाणं । चेतन्नस्सवि एवं तकज्जत्तम्मि किमत्तं ॥ ६५ ॥
स्यादेतत् भूतकार्याणां घटपटादीनां स्वभावभेदेन वैचित्र्यं दृष्टम्, 'एवम्' अमुना प्रकारेण चैतन्यस्यापि 'तत्कार्यत्वेऽपि ' भूतकार्यत्वेऽपि यदि तदन्यकार्येभ्योऽत्यन्तवैलक्षण्यं भवेत् किमयुक्तं भवेत् ? नैव किंचिदिति भावः ॥ ६५ ॥ अत्रोत्तरमाह
For Private & Personal Use Only
www.jainelibrary.org