________________
धर्म
॥ ३९ ॥
Jain Education Intak
जमखिलतक्कज्जाणं, विलक्खणं सबहा अमुत्तादि ।
तस्साह मि (asa) किमिह कोसपाणं विणा माणं ॥ ६६ ॥
रूपादिसंस्थानविशेषो मूर्त्तिस्तदभावोऽमूर्तिरादिशब्दाद्बोधरूपतादिपरिग्रहः । ततो यदमूर्त्त्यादि अखिलतत्कार्याणां निःशेषभूतकार्याणां सर्वथा एकान्तेन विलक्षणं, तत्खाभाव्येपि च अमूर्त्यादिखभावत्वेऽपि भूतकार्यस्य सतश्चैतन्यस्येष्यमाणे, किमिह कोशपानं विना अन्यत् मानं प्रमाणं भवेत्, नैव किंचिदिति भावः । ततो यदि भूतकार्य चैतन्यं ततस्तस्य घटादेरिवामूर्त्यादि सर्वथा नोपलभ्येत, अथ च तत्तस्यानुभूयते, तस्मान्न भूतकार्य चैतन्यम् । यदप्युक्तं, 'सुषुप्तप्रबुद्धस्य दृश्यते तावचैतन्यमित्यादि । तदप्यसमीचीनम्, कायमात्राचैतन्यानुत्पत्तेः, अन्यथा सर्वेपाममरणप्रसङ्गात्, मृतावस्थायामपि कायाकारपरिणामापरित्यागतः सुपुप्तप्रबुद्धावस्थायामिव चैतन्योत्पादप्रसक्तेः । न तत्र वाय्वादिसहकारिकारणं, तेनादोष इति चेत्, एतदुत्तरत्र निषेत्स्यामः । स्यादेतत्कायजमेव चैतन्यं, जरादिना तद्विकारे सति चैतन्यस्यापि विकारसिद्धेः । तदप्ययुक्तम्, कायविकाराभावेऽपि भावनाविशेषतोऽप्रीत्यादिभावेन चैतन्यविकारोपलब्धेः । यदि च देहविकारनिबन्धन एव चैतन्यविकारः स्यात्तर्हि नान्यतो भवेत्, तद्भावनिबन्ध
For Private & Personal Use Only
संग्रहणिः.
॥ ३९ ॥
www.jainelibrary.org