SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नस्य सकृदपि तमन्तरेणान्यतो भवनविरोधात्, अन्यथा निर्हेतुकत्वप्रसङ्गात् , तथाहि-यत् यदन्वयव्यतिरेकानुविधायि, तत्तद्धेतुकं, नान्यत्, न च देहविकारान्वयव्यतिरेकानुविधायी चैतन्यविकारस्तमन्तरेणापि भावनाविशेपवशेनाप्रीत्यादिभावतस्तद्विकारदर्शनात् । नाप्यप्रीत्यादिभेदभावान्वयव्यतिरेक(कानु)विधायी चैतन्यविकारस्तमन्तरेणापि भवता देहविकारतस्तद्विकाराभ्युपगमात्, तदेवमुभयोरपि हेतुत्वाभावाचैतन्यविकारस्य निर्हेतुकत्वप्रसङ्गः।। तन्न देहविकारपूर्वकश्चैतन्यविकारः, किंत्वप्रीत्यादिभावपूर्वक एव, तथादर्शनात् । अन्यथोक्तनीत्या निर्हेतुकत्वप्रसङ्गात् । अप्रीत्यादिभावेऽपि देहविकारपूर्वक एव, जराद्यवस्थासु तथोपलम्भात् , तथाहि-जरादिना देहविकारस्तस्माचाप्रीत्याखास्थ्यादिभावस्तस्माच चैतन्यविकार इति चेत्, न, देहविकाराभावेऽपि तथाविधसंकल्पवश तोऽप्रीत्यादिभावदर्शनात् । किञ्च-देहविकारमात्रे सति चैतन्यविकारदर्शनात्तस्य तत्कार्यत्वाभ्युपगमे विपर्ययापत्तिहारप्यनिवारितप्रसरा, शोकहर्षाद्यवस्थासु चैतन्यविकारतो देहविकारदर्शनात् , देहस्य चैतन्यकार्यत्वप्रसक्तेः । अपि चव्याघ्रश्चौरो रक्ष आगच्छतीत्यादिशब्दाकर्णनात् केषाञ्चिच रुधिरादिदर्शनाच चैतन्यविक्रियोपलभ्यते, न च तत्कार्य चैतन्यमिष्यत इति यत्किंचिदेतत् । यदप्युक्तं, 'सुषुप्ता(त्य)वस्थायां चैतन्यस्याभावादुपलभ्यस्य सतस्तदानीमनुपलम्भादिति, तदप्ययुक्तम् , स्वसंवेदनमात्रस्याव्यक्तस्य तदानीमप्यनुभूयमानत्वात् , अविगानेन तथा सकललोकप्रसिद्धेः । अन्यच-स्मरणकार्यान्यथानुपपत्त्या सुपुत्त्यवस्थायां चैतन्यमस्तीति नियमात् प्रतिपत्तव्यम्, तथाहि Jain Education in For Private & Personel Use Only PHww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy