SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ४० ॥ Jain Education सुषुप्तावस्थाभा विस्वप्नादिचैतन्यविषयं स्मरणमविगानेनानुभूयते, न चाननुभूते तत् स्मरणमुपपद्यते, अतिप्रसङ्गात् । न च कायान्वयनिबन्धनमेव तत्स्मरणं, तथाप्रतीत्यभावात्, तत्खरूप संस्पर्शिस्मृत्यननुभूतेस्तथापि चेदेवं कल्पना तर्ह्यतिप्रसङ्गः । न च तथा स्वभावत्वसामर्थ्यात् कायादेव तथा तत्स्मरणमिति वाच्यं तस्य तथास्वभावत्वासिद्धेः, तत्साधकप्रमाणाभावात् । तस्मादनुभूतसुषुप्तावस्थाभाविचैतन्य विशेष निबन्धनमेव तत्स्मरणम् । तथा च सिद्धंसुषुप्तावस्थायामपि चैतन्यमिति । एतेन यदपि प्रागुक्तं ' तथापि चेत्तत्कल्पना' इत्यादि तदपि निर्वि षयमापादितं द्रष्टव्यं प्रबुद्धावस्थाभाविचैतन्यस्य सुषुप्तावस्थाभावि चैतन्यपूर्वकत्वेनैव व्यवस्थापितत्वात् । यदप्यभ्यधायि न चेदमपि वक्तुं युक्तं, भूतानां चैतन्यापेक्षया अत्यन्तवैलक्षण्यादि त्यादि तदपि न मनोरमम् । सूक्ष्माप्रदेशपरमाणूनां स्थूलप्रदेशघटादिकार्यापेक्षया अत्यन्तवैलक्षण्यासिद्धेर्मूर्त्तत्वादिधर्म्मसमन्ययात्, तथाहि - सूक्ष्मा अप्यणवो मूर्त्ता रूपाद्यात्मकत्वात् न च अप्रदेशा एव ते परमाणवः, सतः क्वचिदवस्थानेन नियमत एव दिग्विभागभेदसंभवात्, अन्यथा अवस्थानायोगात् । दिग्भागभेदवतश्च नियमतः कथंचित्सप्रदेशत्वात् । न च वाच्यमेवं सति परमाणोः परमाणुत्वं विरुध्यत इति ? तस्य तदन्याल्पतराभावनिबन्धनत्वात्, एतच्चोत्तरत्र विस्तरतरकेणाचार्यः स्वयमेव दर्शयिष्यति । ततश्चैवंभूतेभ्यः परमाणुभ्यस्तत्समुदायात्मकं स्थूलस प्रदेशघटादिकार्यमुपपद्यत एव कारणविशेषधर्मानुगमेन तस्य तदनुरूपत्वात् । अपर For Private & Personal Use Only संग्रहणिः ॥ ४० ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy