________________
Jain Education Int
| स्त्वाह-- स्यादेतद् यदि परमाणुसमुदायात्मकं घटादिकार्य तर्हि तेषां परमाणूनां प्रत्येकमिन्द्रियग्राह्यत्वाभावात् । समुदितानां सतां कथं तेषामिन्द्रियग्राह्यता भवतीति, उच्यते, तथापरिणमनखभावतया तदा तेषां तत्खभावताभावात्, तथाहि - परमाणूनामेवायं स्वभावो येन तत्तत्कालाद्यपेक्षया तत्र तत्र तथाविर्भूतैकत्वपरिणामनैरन्तर्येण विशिष्टसंस्थानवन्तोऽवतिष्ठन्ते वादराश्च भवन्तीति । अथ किमिदं बादरत्वं नाम, उच्यते, समुदितानामिन्द्रियग्राह्यखभावता, स्थूरत्वमितियावत् । नन्वियमेव इन्द्रियग्राह्यखभावता सूक्ष्माणां समुदितानामपि सतां सत्तानुपचये न न्याय्या, न, स्वभाववैचित्र्यभावतस्तन्याय्यत्वोपपत्तेः । दृष्टं च स्वभाववैचित्र्यं स्थूरसूक्ष्मत्वविषयं प्रत्यक्षत एव तुलानतिविशेषादिभावेनानुमीयमानतुल्य परमाणूनामपि भेंडवज्रादीनामिति न्याय्यैव तेषां तथावस्थि| तानामिन्द्रियग्राह्यखभावतेति । एतेन 'पर्यायेण व्यभिचार' इत्येतदपि प्रत्युक्तं द्रव्यस्यैवानेकशक्तिसमन्वितस्य तथा भवनेन तस्य सर्वथा असत्त्वासिद्धेः, मृत्पिण्डादेर्हि द्रव्यस्य तथारूपेण भवनाभावे घटादिलक्षणपर्यायस्यादलत्वेनाभवनमेव प्रसज्येत ततो द्रव्यस्य मृत्पिण्डादेरन्यथाभवनमात्रं घटादिपर्यायस्योत्पत्तिरित्यदोषः । न च वाच्यं यदपि किंचिद्रव्यस्यान्यथाभवनमात्रं तस्यासत एवोत्पादात्तेन व्यभिचार इति, तस्यापि कथंचिद् द्रव्येन सहाभेदतः सर्वथा असत्त्वासिद्धेरिति सूक्ष्म धिया भावनीयमेतत् प्रपञ्चयिष्यते चैतदाचार्येणाग्रे स्वयमेव । न चैवं भूतानां तथाभावेन चैतन्यमुपपद्यते, तद्धर्म्माननुविधानात्, न हि काठिन्यद्रवत्वचलत्वादिधर्म्मकतया अस्य चैतन्यस्यानुभवोऽस्ति, अमूर्त
For Private & Personal Use Only
****
www.jainelibrary.org