________________
॥४१॥
त्ववोधरूपत्वादिरूपतया तस्य संवेद्यमानत्वात् , तथा खसंवेदनप्रत्यक्षसिद्धेरिति न भृतकार्यता चैतन्यस्य ॥६६॥ | संग्रहणिः दातदेवं 'भूएहिं चेयन्नं कायागाराइपरिणएहितो' इति प्रतिज्ञां सप्रपञ्चं दूपयित्वा हेतोर्दूषणमभिधित्सुराह
तब्भावम्मि य भावो ण परासुरचेयणो जतो काओ।
दीसइ ण तत्थ वाऊ सति सुसिरे सो कह ण होज्जा ? ॥ ६७ ॥ यदुक्तं तद्भावे' कायाकारादिपरिणतभूतसमुदायमात्रभावे चैतन्यस्य भाव एव, येन तदतिरिक्तात्मलक्षणकारणान्त-2 रापेक्षा तस्य न स्यात् । कुत इत्याह--'यतो' यस्मात् 'परासुः' अपगतप्राणः कायोऽचेतनो दृश्यते, स्यादेतत्पृथिव्यप्तेजोवायुलक्षणभूतसमुदयजन्यं चैतन्यं, न चात्र वायुरस्ति । तथाह-'न तत्थ वाऊ' इति न 'तत्र' परासौ काये वायुरस्ति, ततस्तदभावात्तत्र चैतन्याभाव इति । अत्राह-सुपिरे स वातः कथं न भवेत् ?, भवेदेवेति भावः, सुषिरे यवश्यंभावी वायुः संभाव्यत इति। किञ्च-यदि तत्र वायुवैकल्याच्चैतन्यस्याभावः, ततो वस्त्यादिभिः संपादिते वायौ तत्र चैतन्यमुपलभ्येत, न च तत्र संपादितेऽपि वायौ समुपलभ्यते ॥ ६७ ॥ यदाह
॥४१॥ ण य तं कएवि दीसइ पाणापाणूणभावतो णो चे । णो जीवाभावातो किमेत्थ माणंति वत्तवं ?॥ ६८॥
Jain Education Inter
For Private & Personel Use Only
OMw.jainelibrary.org