________________
न च तत् चैतन्यं कृतेऽपि' संपादितेऽपि वायो 'दृश्यते' उपलभ्यते । अत्र दूपयितुं पराभिप्रायमाशङ्कते 'पाणापाहणूणऽभावओ नो चे' प्राण उच्छासः, अपानोऽधः श्वसनम् , यदाह गन्धहस्ती-प्राणापानौ उच्छासनिश्श्वासाविति,
तदभावान्न तत्र चैतन्यमिति चेत् , चेत्शब्दो निपातो यद्यर्थे, एतद्यदीष्यत इत्यर्थः । अत्रोत्तरमाह--'नो जीवाभावाओ किमेत्थ माणंति वत्तवमिति न जीवाभावात्तत्र परासौ काये तचैतन्यमपि तु प्राणापानाभावादित्यत्र 'किं मानं' किं प्रमाणमिति वक्तव्यं ?, प्रमाणमन्तरेणाभिप्रेतासिद्धेरन्यथातिप्रसङ्गात् । तच प्रमाणं न किञ्चिदुपलभ्यत इति यत्किंचिदेतत् । स्यादेतत्-प्राणाद्यन्वयव्यतिरेकानुविधानं चैतन्यस्यात्र प्रमाणमस्त्येव । तथाहि-प्राणादिसद्भावे तचैतन्यमुपलभ्यते तदभावे तु नेति, तदप्ययुक्तम्, तत्रापि संदेहात्, तथाहि-किं प्राणादिभावाभावाभ्यां चैतन्यभावाभावी किंवा जीवभावाभावाभ्यामिति । अपि च-प्राणादिरपि कायाकारपरिणामनिमित्तक एव त्वयाऽभ्युपगम्यते, आत्मानभ्युपगमात् , स च कायाकारपरिणामो मृतकायेऽपि तदवस्थ उपलभ्यत इति, तदभावोऽप्यनुपपन्न एवेति कथमुच्यते प्राणापानाभावान्न तत्र चैतन्यमिति ॥ ६८॥ अधुना परोऽन्यथा कारणवैकल्यमापादयति
तेयाभावातो ण तं उवणीते तम्मि पावती भावो । अह सो विसिटुगो चिय वइसिटुं किंकतं तस्स ? ॥ ६९ ॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org