________________
॥४२॥
तेजसोऽभावान्न परासौ तचैतन्यमिति, आह-'उवणीए इत्यादि' यद्येवं तर्हि तस्मिन् तेजसि उपनीते सति | | संग्रहणिः चैतन्यस्य भावः प्राप्नोति । अथ मन्येथास्तत्तेजो विशिष्टमेव सत् चैतन्यस्य कारणमिष्यते न तेजोमात्र, तेन तस्मिन्नपनीतेऽपि न चैतन्यस्य भावप्रसक्तिः। प्राकृतत्वाच्च सो इति पुंस्त्वनिर्देशः । अत्रोत्तरमाह--'वइसिटुं किंकयं तस्स' ॥ ६९ ॥ अत्र परस्याभिप्रायमाह
___ अह नु सभावकयं चिय ण पमाणमिहावि साहगं किंच ? ।
अप्पतरं दीसिजा तदभावे सेसभावातो ॥ ७॥ अथ स्वभावकृतमेव तस्य तेजसो वैशिष्ट्यमिति मन्येथाः ।अत्राह-न प्रमाणमिहापि साधकं, न हि तस्य वैशिष्ट्यं खभावकृतं न पुनरात्मनिर्मितमित्यत्र किंचित्प्रमाणमुपलभामहे, न चापश्यन्त आत्मानं विप्रलभेमहीति । किंचेसभ्युच्चये । अन्यच 'तदभावे' तस्य तेजसोऽभावे शेषपृथिव्यादिभूतसद्भावात् तन्निमित्तमल्पतरं कियदपि चैतन्यमुपलभ्येत । समुदायजन्यं चैतन्यमिति तदेकस्याप्यभावे कथं चैतन्यस्योत्पत्तिरिति चेत्, न, प्रत्येकमेकान्तेनाभावे सति समुदायेऽपि तद्भावानुपपत्तेः, रेणुसमुदाये तैलवत् । समुदाये चेत्तदभ्युपगम्यते ततः प्रत्येकमपि तदभ्युपग- ॥४२॥ न्तव्यम् , तथा च सति तेजसोऽभावेऽपि शेषपृथिव्यादिभूतसद्भावात् यत्कियदपि चैतन्यमुपलभ्येत, एतच दूषणं भूताव्यतिरिक्तचैतन्यपक्षमधिकृत्य वेदितव्यम् ॥ ७० ॥
RRC
Jain Education ind
a
For Private & Personal Use Only
Khww.jainelibrary.org