________________
SAMROSAROGRAMMARCH
तह पुढवादिसमुदया किं कुसलकया ण होइ चेतन्नं ।
सवत्थ अविसेसेणं जत्तेण वि कीरमाणं तु ॥७१॥ 'तथेति' दूषणान्तरसमुच्चये। यदि पृथिव्यादिसमुदयमात्रनिमित्तं चैतन्यमिप्यते तर्हि पृथिव्यादिसमुदायात् कुशलेन पुंसा कृतात् सर्वत्र देशे काले वाऽविशेषेण यत्नेनापि क्रियमाणं तत्किं-कस्मान्न भवति ?, घटादिवत् । यथा हि घटादिः पृथिव्यादिमात्रोपादानस्तत्समुदायमात्रात् कुशलेन पुंसा यत्नेन क्रियमाणः सर्वत्राविशेषेण भवति तथा चैतन्यमपि यदि पृथिव्यादिमात्रोपादानं स्यात् तर्हि यत्नेन क्रियमाणं ततः पृथिव्यादिसमुदयमात्रादविशेषेण | सर्वत्र भवेत् , न च भवति, तस्मान्न तत्तन्निमित्तमिति ॥ ७१ ॥ अत्र पर आह
णत्थित्थीकुच्छिसमं तस्समदायस्त ठाणमग्गंति ।
एवुब्भियपमुहाणं पावइ णणु चेयणाभावो ॥ ७२ ॥ नास्ति स्त्रीकुक्षिसमं, 'तत्समुदायस्य कुशलपुरुषनिर्माप्यमाणपृथिव्यादिभृतसमुदायस्य, स्थानं चैतन्यं प्रति व अधिकरणभूतं, 'अग्र्यं' प्रधान, प्रधानता चान्येभ्यः सकाशात्तस्य चैतन्यं प्रत्यविकलकारणत्वात् इति । तस्मान्नावि
१ देशे काले चाविशेषेण सर्वत्र भवेत् इति कपुस्तकपाठः ।
*CROCOCCCOCOCALCANCदर दाल
धर्म.८ Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org