________________
धर्म
॥ ४३ ॥
शेषेण सर्वत्र चैतन्यस्य भावप्रसङ्गः । एतदुक्तं भवति - न केवल पृथिव्यादिभूत समुदयमात्रनिमित्तं चैतन्यमिष्यते, किंतु विशिष्टस्थानसापेक्षं तच विशिष्टं स्थानं स्त्रीकुक्षिकल्पम्, न चैतत्सर्वत्र विद्यत इति तदभावात्सर्वत्र चैतन्याभाव इति । अत्र दूषणमाह - 'एवोब्भियेत्यादि' नन्वेवं परिकल्प्यमाने सति उद्भिजप्रमुखाणां उद्भेदनमुद्भित् ततो जाता उद्भिज्जाः - खञ्जरीटादयः, पृषोदरादित्वाहकारस्य लोपः, तत्प्रमुखाणां जन्तूनां चैतन्याभावः प्राप्नोति, तदुत्पत्तिदेशे स्त्रीकुक्षिलक्षणस्थानाभावात् ॥ ७२ ॥
ae afaeपरिणाम णत्थि ण जीवोत्ति णिच्छओ केणं ! । चेतन्नाभावेणं जीवाभावेऽवि सो तुल्हो ॥ ७३ ॥
अत्रोच्येत ? - न ब्रूमः कुशलपुरुषनिर्माप्यमाणपृथिव्यादिभूतसमुदायस्य स्त्रीकुक्षिसमं स्थानं नास्तीति तत्र चैतन्याभावः, किंतु तथाविधः परिणामविशेषो नास्तीति ततो नोद्भिज्जादीनां चैतन्याभावप्रसङ्ग इति । अत्राह - 'न जीवोत्ति निच्छओ केणंति' नन्वत्र केन प्रमाणेन भवतो निश्चयो यथा - तथाविधः परिणामो नास्तीति तत्र चैतन्या - भावो, न पुनर्जीवो नास्तीति । पर आह- 'चेयन्नाभावेणंति' यदि तथाविधः परिणामस्तत्र भवेत् तर्हि तद्भवेदेव तत्रापि चैतन्यं, न च भवति, ततश्चैतन्याभावेन तत्र तथाविधपरिणामाभावो निश्चीयते इति । अत्राह - 'जीवाभावेऽवि
Jain Education International
For Private & Personal Use Only
संग्रहणि:
॥ ४३ ॥
www.jainelibrary.org