________________
सो तुल्लो' स चैतन्याभावो जीवाभावेऽपि तुल्यः, तथाहि-एतदपि शक्यते वक्तुं यदि जीवः सर्वविशेषणः (०त्रावि-- | शेषेण) स्यात् स्यादेव चैतन्यमतश्चैतन्याभावात्तत्र जीवो नास्तीति निश्चीयत इति ॥७३॥ आह-यदुक्तं-"पृथिव्यादिसमुदायात्कुशलपुरुषकृतादविशेषेण चैतन्यं कस्मान्न भवतीति", तदयुक्तमुक्तम् , यतो मद्याङ्गसमुदायमात्रनिमित्तापि सती मदशक्तिर्न तत्समुदायमात्रादविशेषेण भवति, क्वचित्तथाविधपरिपाकाभावेन तदनुत्पत्तिदर्शनात् , तथा चैतन्यमपि पृथिव्यादिसमुदायमात्रात्कुशलपुरुषकृतादविशेषेण न भविष्यतीति न कश्चिद्दोष इत्यत आह
___ण य इह मजंगाणं न होइ अविसेसतो तु मदसत्ती।
जं कुसलनिउत्ताणं नायाणुगयं न तेणेदं ॥७४ ॥ न च 'यद्' यस्माद् 'इह' जगति मद्याङ्गानाम् 'कुसलनिउत्ताणंति' कुशलेन पुंसा नियुक्तानाम् , अकुशलेन हि नियुक्तानां सतां तथाविधपरिपाकाभावेन न मदशक्तिर्भवेत् ततो मा भूतैर्व्यभिचारो यथोक्तं प्राक् परेणेति तद्यवच्छेदार्थ कुशलग्रहणम् , अत एव प्रागपि कुशलकृतादित्यत्र कुशलग्रहणमाचार्येणोपादायि, तदेवंरूपाणां मद्याङ्गानां न न भवति मदशक्तिः, किंतु भवत्येव । तेन कारणेन 'इदं' ज्ञातं मदशक्तिलक्षणं न न्यायानुगतमिति कथमुच्यते न | कश्चिद्दोष इति ॥ ७४॥ तदेवं तद्भावे भावं व्यभिचार्य सांप्रतं तदभावेऽभावं व्यभिचारयन्नाह
Jain Education
For Private & Personel Use Only
www.jainelibrary.org