SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Jain धर्म. ७ अथ मन्येथाः -- तस्य चैतन्यस्य एष एव खभावो, यदुत समुदायस्य धम्मों, न प्रत्येकं भूतानां तथा तदैव च विशिष्टायामेव समुदितावस्थायां तद्भवतीति । अत्राचार्य आह - 'पत्तेयमित्यादि, न तावत्प्रत्येकं भूतेषु चैतन्यं विद्यते, दृश्यस्य सतोऽनुपलम्भात् । प्रत्येकं चासति चैतन्ये अनन्तरोक्ता कूटखभावकल्पना क्रियते, न पुनः 'जीवभावो' जीवसत्ताऽङ्गीक्रियते इत्यहो वलवान् व्यामोहः । कूटरूपता चानन्तरोक्तख भावकल्पनाया अत्यन्तासतश्चैतन्यस्य तथारूपस्वभावायोगात्, अन्यथा असत्त्वमेव तस्य न स्यात् । नाप्यत्यन्तासत उत्पादो घटते, असत्त्वाविशेषेण तद्वत्तदन्यभावापत्तिप्रसक्तेः । भूतानां तज्जननखभावत्वात्तस्यैवोत्पत्तिर्नान्यस्येतिचेत्, न तेषां तज्जननखभावत्वकल्पनाया अयोगात्, अवध्यभावात्, अनुत्पन्नं हि चैतन्यं खरविषाणादितुल्यमित्यवध्यभावतो विशेषेणासज्जननखभावत्वं तत्त्वतो भूतानां भवेत्, ततस्तेभ्यश्चैतन्यस्येव खरविषाणादेरप्युत्पत्तिप्रसङ्गः ॥ ६१ ॥ अह धम्मी, तत्तंतरसिद्धी. अब्भुवगमम्मि य पदोसो । धणिमित्तेण तु भेया. ण य भूतेहिं तदुप्पत्ती ॥ ६२ ॥ अथ न प्रत्येकं भूतानि नापि भूतसमुदायश्चैतन्यस्य धर्मी, किन्तु स्वयमेव तद्धम्मिरूपं तच घटादिवत् भूतेभ्य उत्पद्यते, ततो न कश्चिद्दोष इति । अत्राह - ' तत्त्वान्तरसिद्धि:', यद्येवमिष्यते तर्हि तत्त्वान्तरसिद्धिप्रसङ्गः । तथा For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy