________________
धर्म
| संग्रहणिः.
CONOROS
4SECRECCARROCESSOCICIASCIROGICS
जइ संतं उवलद्धी किन्नो पुर्वपि ? ओघतो अस्थि ।
ण य एवं उवलब्भइ पत्तेयं तेसु चेयण्णं ॥ ६॥ यदि मद्याङ्गेषु प्रत्येकावस्थायामपि सत् विद्यमानं संधानमिष्यते तर्हि किन्न समुदितावस्थायामिव प्रत्येकावस्थायामपि तदुपलभ्यते, तस्मात्तस्य दृश्यस्य सतोऽनुपलम्भादभाव एव तस्यामवस्थायामिति । अत्रोत्तरमाह-ओघतो|ऽस्तीति, एतदुक्तं भवति-ये मद्याङ्गेषु समुदितावस्थायां भ्रम्यादयो गुणा उपलभ्यन्ते, ते प्रत्येकावस्थायामपि धातक्यादिषु पृथक् पृथक् सन्तस्तथाविधविशेषविकलाः सामान्यत उपलभ्यन्ते एव, ततः संधानस्य प्रत्येकावस्थायामपि मद्याङ्गेवोघतः-सामान्येनोपलब्धिरस्तीति दृश्यस्य सतस्तस्यानुपलम्भादित्यसिद्धम् । तद्येवं चैतन्यमपि प्रत्येकं भविष्यतीत्यारेकानिराकरणार्थमाह-'न येत्यादि', न च 'एवमपि ओघतोऽपि, आस्तां विशेषाकारणेत्यपिशब्दार्थः, उपलभ्यते प्रत्येकं 'तेषु' भूतेषु चैतन्यम् , अतःप्रत्येकावस्थायां तस्य दृश्यस्य सतोऽनुपलम्भादभाव एव युक्त इति ॥ ६० ॥ अत्र परस्याभिप्रायमाह--
अह तस्सेस सहावो समुदयधम्मो तदा य होइत्ति । पत्तेयं च असंते न जीवभावोत्ति वामोहो ॥ ६१ ॥
॥३६॥
Jain Educaton in
For Private & Personel Use Only
| www.jainelibrary.org