SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ न यस्मादिह लोके 'मिथः' परस्परं विभिन्नानामासन्नानामपि पुंसां भिन्ने चैतन्ये सति 'भावेषु' पदार्थेषु विषयभूतेषु ज्ञानमेकं पूर्वोक्तस्वरूपं प्रवर्त्तते, नापि तत्प्रभवा' तथाविधैकज्ञानप्रभवा स्मृतिः, तथानुपलम्भात् । तस्माहद्भिन्नाभिप्रायत्वाचैतन्यानां न तथा देहेऽवस्थानं युज्यते, नापि प्रदर्शितखरूपः प्रवर्त्तते सकलेन्द्रियोपलम्भः । अथा |च खसंवेदनप्रत्यक्षेणोभयमपि देहे तथा प्रवर्तमानमनुभूयते, न चास्येत्थमनुभूयमानस्यापि प्रतिषेधः कर्तुं शक्यते, मा प्रापत् भूतानामपि प्रतिषेधप्रसङ्गः । ततो न प्रत्येकं भूतधर्मश्चैतन्यमिति स्थितम् ॥ ५॥ यचोक्तं प्राक 'नो य तस्समुदयस्स । पत्तेयमभावाओत्ति', तत्र पराभिप्रायमाशङ्कमान आह सिय संधाणं व तयं समुदयधम्मो ण तंपि पत्तेयं । एगंतेणासंतं तदन्नभावप्पसंगातो ॥ ५९॥ स्यादेतत् , न प्रत्येकं भूतधर्मश्चैतन्यं, किंतु समुदायधर्मो, यथा 'संधानं' मद्यं, न च प्रत्येकमभावात्समुदायेऽप्यभाव इति वाच्यं, दृष्टत्वात् , तथाहि-संधानं प्रत्येकं मद्याङ्गेष्वदृष्टमपि समुदाये दृश्यते, तथा चैतन्यमपि भविप्यति, न हि दृष्टे अनुपपन्नं नाम । अत्रोत्तरमाह-नेत्यादि, 'न' नैव तदपि संधानं प्रत्येकमेकान्तेनासत्, अत्यन्तासत उत्पादायोगात्, अन्यथा असत्त्वाविशेषतः पञ्चमभूतस्यापि तेभ्यः संधानस्येवोत्पत्तिप्रसङ्गात् ॥५९॥ अत्र पर आह ASARASWA5%ॐॐॐ Jain Education Intel For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy