________________
धर्म
संग्रहणिः ,
अथ न चैतन्यस्यैकत्वमिष्यते, किंतु भिन्नवस्तुधर्मत्वात् नानात्वं, तेनादोप इत्यत्राह
भिन्नाभिप्पायाण य देहम्मि तहा कहं अवत्थाणं ?।
सयलिंदिओवलंभो जओ सती तेस सोय कह॥ ५७॥ 'भिन्नाभिप्रायाणां च' भिन्नभिन्नाभिप्रायेण युक्तानां च चैतन्यानां 'देहे' शरीरे, 'तथा' अहं ददामि अहं करोमीत्यादिरूपविशिष्टैकमानसिकानुभवनिवन्धनत्वेनावस्थानं कथं भवेत् ?, नैव कथंचनेति भावः । भिन्नाभिप्रायतया है तथाऽवस्थानभावे युक्त्ययोगात् । तथा यः प्रतिप्राणि प्रसिद्धः प्रत्येकं सकलैरपीन्द्रियैरुपलम्भो 'रूपं पश्यामी'त्याद्या-2 कारः सकलशरीराधिष्ठात्रेकरूपो 'यतः' पश्चात्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे सति 'स्मृतिः' तदेवेदं यत् प्राग्मयोपलब्धमित्याद्याकारा उपजायते, सोऽपि सकलेन्द्रियोपलम्भः कथं स्यात् ?, नैव स्यादिति भावः ॥५७॥ | स्यादेतत्, भिन्नाभिप्रायत्वेनापि चैतन्यानां परस्परं प्रत्यासत्तिविशेषतो यथोक्तखरूपैकज्ञाननिबन्धनता भविष्यति, ततः को दोष इत्यत आह
न हि भिन्ने चेतन्ने आसन्नाणवि मिहो विभिन्नाणं । भावेसु णाणमेगं लोगम्मि सती य तप्पभवा ॥ ५८ ॥
Jan Education Intema
For Private & Personal Use Only
www.jainelibrary.org