________________
C
कस्यापि भूतेषु पृथिव्यादिषु नानात्वव्यवहारो विरुद्धधर्मसंसर्गनिमित्तक एव सिद्धः, स चेहाप्येकस्मिन् । निश्चीयमाने अपरस्यानिश्चीयमानत्वमित्येवंरूपो विरुद्धधर्मसंसर्गोऽस्ति, ततो निमित्तसंभवे प्रवर्तनीयोऽयं व्यवहारो नो चेदन्यत्रापि न प्रवर्त्तयितव्य इत्येवमनेनानुमानेन नानात्वव्यवहारः प्रवर्त्तते इत्यदोषः। व्यतिरेकाव्यतिरेकपक्षे त्वविप्रतिपत्तिरेव,अस्माभिरप्यात्मना सह शरीरस्य कथंचिदभेदाभ्युपगमात् । यदपि क्वचिदुच्यते यथा-नीलता
प्रत्येकमनुपलब्धाऽपि भूतसमुदाये उपलभ्यते, तथा चैतन्यमपीति, तदप्ययुक्तम् , नीलतायाः पटादिषूपलभ्यमानादयाः प्रत्येकमपि तन्तुपक्ष्मादौ दर्शनात्, न चैवं चैतन्यं प्रत्येकमप्युपलभ्यते इति कथं नीलतादितुल्यं तद्भवेत् । तथा *चाह-नीलादितुल्यतापि च प्रत्येकमदृष्टितोऽयुक्तेति ॥५५॥ अभ्युपगम्यापि प्रत्येकं भूतेषु चैतन्यं दूषणमाह
तब्भावम्मि वि कह भिन्नवत्थुधम्मत्तणेण एगत्तं ? ।
चेयन्नस्सियरेसिं एगत्ते कह व णाणत्तं ? ॥ ५६ ॥ तद्भावेऽपि' प्रत्येकं भूतेषु तस्य चैतन्यस्य भावेऽपि, कथं प्रभूतभिन्नवस्तुधर्मत्वाचैतन्यस्यैकत्वं भवेत् ?, नैव कथंचन भवतीति भावः, भिन्नाभिप्रायपुरुषसमुदायचैतन्यवत् । एकत्वे वा चैतन्यस्य तदव्यतिरिक्तत्वात् भूतानां नानात्वं न भवेत् ॥ ५६ ॥
OCOCROSAROSAGARLOGGC
Jain Educaton Intern
For Private & Personel Use Only
w
ww.jainelibrary.org