________________
धर्म
॥ ३४ ॥
Jain Education Inte
णीलादितुल्लतावि हु पत्तेयमदिट्ठितोऽजुत्ता ॥ ५५ ॥
चो हेतौ, यस्मात् दृष्टेष्वपि भूतेषु न 'तस्य' चैतन्यस्य ' तथा ' भूतानामिव गमनम् - अवबोधो निश्चयो भवति । कुत इति चेत् अत आह— “ संसओ य केसिंचि' अत्रापि चशब्दों हेत्वर्थे, यस्मात्केषांचिदवग्दृशां प्रतिपत्तॄणां चैतन्यविषयो निश्चयप्रतिपक्षभूतः संशय उपलभ्यते, ततो ज्ञायते भूतदर्शनेऽपि न चैतन्यस्य हर्षविषादादिरूपस्य नि| श्वयः, ततो विरुद्धधर्म्मसंग्रहान्न भूतसमुदायादव्यतिरिक्तं चैतन्यम् । प्रयोगश्चात्र - यस्मिन्निश्चीयमाने यन्न निश्चीयते न तयोरैक्यमेव, यथोष्णत्व कठिनत्वयोः, न निश्चीयते च शरीरे निश्चीयमाने चैतन्यमिति । द्विरूपं हि विश्व, विरुदूधर्म्मसंसर्गयुक्तं, तद्रहितं च । तत्र तद्रहितेषु दृष्ट एकत्वव्यवहारः, स तद्युक्तेऽपि यदि वर्त्तेत तर्ह्यनियतविषयः स्यात्, नियतविषयतया चासौ व्याप्तस्ततो व्यापकानुपलब्ध्या विरुद्धधर्म्मसंसर्गिणो रूपाद्यावर्तमानस्तद्रहितरूप|विषयतया व्याप्यत इति व्याप्तिसिद्धिः । यस्मिंश्च निश्चीयमाने यन्न निश्चीयते, तत्र विरुद्धधर्म्मसंसर्गभावात्तद्रहितरूपविषयत्वस्य व्यापकस्याभाव इति व्यापकानुपलब्धिरियम् । न चेयमसिद्धा, यस्माच्चैतन्यस्य हर्षविषादाद्यनेकाकारं रूपं निर्विवादमनुभवसिद्धं भूतानां काठिन्यादिवत्, तच्च शरीरे निश्चीयमाने न निश्चीयते, तत्प्रतिपक्षस्य | संशयस्य दर्शनादिति । स्यादेतत्- चार्वाकं प्रत्यनुमानप्रयोगोऽनुपपन्नः, तन्मतेनास्याप्रमाणत्वात्, तदयुक्तम्, यतश्चा
For Private & Personal Use Only
%%%%%
संग्रहणिः.
॥ ३४ ॥
www.jainelibrary.org