SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ % % A RE ण हि काठिण्णादीया केसिंचि कयाइ वञ्जति ॥ ५४ ॥ न घटते तावद्भतधर्मत्वं चैतन्यस्य, भवतु वा तदपि, कथं सदा तस्य चैतन्यस्याविशेषभावेन-अविशेषेण अभि६व्यक्तिः-आविर्भावो न भवति? भवेदेवेति भावः, विशेषभाव निबन्धनहेत्वभावात् , भावे च तत्त्वान्तरापत्तिप्रसङ्गात् । इष्यते च कदाचिदेवाभिव्यक्तिः, मृतकाये तदनभ्युपगमात् । अमुमेवार्थ दृष्टान्तेन द्रढयति-'न हीत्यादि' न हि काठिन्यादयो धर्माः केषांचित् पृथिव्यादीनां तन्मात्रनिमित्ताभिव्यक्तिकाः सन्तस्तैः कदाचिद्यज्यन्ते, किंतु सदा अविशेषभावेन । एवं चैतन्यमपि यदि भूतधर्मः स्यात् ततस्तैः सदाऽभिव्यज्यतेति । अपिच-अभिव्यक्तिर्नाम न पूर्वमनावृतस्य भवति, तथाऽनुपलम्भादिति, तस्यावरणं च वाच्यं, तथाविधपरिणामाभाव एवावरणमिति चेत् , न, तस्य सकलशक्तिविकलतया आवरणादिक्रियाकारित्वायोगात् , तदकारकस्य चावरणत्वानुपपत्तेः, अतिप्रसङ्गात् । तद्रूपमेव तथाविधपरिणामाभावस्तेनादोष इति चेत्, न, तथाविधपरिणामस्थापि तन्मात्रनिमित्ततया तद्रूपस्य तच्छून्यतानुपपत्तेः ॥ ५४॥ किं च-इदं चैतन्यं भूतेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, किं चातः, यदि व्यतिरिक्तं ततोऽस्माकमिष्टसिद्धिः, संज्ञामात्रविपर्ययेणात्मनोऽभ्युपगमात् । अथाव्यतिरिक्तं तदयुक्तं, यत आह ण य तस्स तहा गमणं दिट्टेसुवि संसओ य केसिंचि। Jan Education Inter For Private Personel Use Only M ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy