________________
३३॥
पत्तेयमभावातो आया परलोयगामि व ॥ ५२ ॥
संग्रहणिः तस्मान्न भूतधर्मचैतन्यम् । मा भूत् प्रत्येकं भूतानां धर्मश्चैतन्यं, तत्समुदायस्य भविष्यतीति चेत् ? अत आह-2 है न च तत्समुदायस्य धर्मश्चैतन्यम् । कुत इत्याह-प्रत्येकमभावात् । अत्रैव दृष्टान्तमाह-'आया परलोयगामिबत्ति' यथा हि प्रत्येकं भूतानामात्मा स्वभावः परलोकगामी न विद्यते इति तत्समुदायस्यापिस न भवति, तद्वचैतन्यमपीति॥ तदेवं चैतन्यस्य भूतधर्मत्वं निराकृत्य सांप्रतं तन्निबन्धनमभिव्यक्तिवादं निराकुर्षन्नुपसंहरति
ता वंजिज्जति तेहिं कह तेणं वा तयं ति ? चिंतमिदं।
धम्मंतरवित्तीए तु सिद्धं जीवस्स अत्थित्तं ॥ ५३॥ यस्मादुक्तप्रकारेण चैतन्यभूतसमुदाययोर्द्धर्मधम्मिभावो न घटते, 'ता' तस्मात् , कथं 'तत्' चैतन्यं, 'तैः भूतैर्व्यज्यते तेन वा भूतसमुदायेनेति ?, चिन्त्यमिदमयुक्तमिदमित्यर्थः । अथैतदोषभयाच्चैतन्यस्य धर्म्यन्तरमुपकल्प्यते, तत्राह-धर्म्यन्तरे भूतसमुदायादन्यस्मिन् धम्मिणि चैतन्यस्य वृत्तौ पुनरिष्यमाणायां सिद्धं जीवस्यास्तित्वं, धर्म्यन्तरस्यैव चैतन्यानुरूपस्य जीवशब्दवाच्यत्वादिति ॥५३॥ अभ्युपगम्यापि चैतन्यस्य भूतधर्मत्वं दोपमभिधित्सुराह
तद्धम्मत्तेवि सयाऽविसेसभावेण कह ण अभिवत्ती?।
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org