________________
• CH
तथारूपसमनन्तरप्रत्ययवैकल्येन तजन्यखभावताया अपरिच्छेदात् धूमावगममात्रादनलानुमितिर्न भवतीति, तद-10 युक्तम् , क्वचिदेकरूपसमनन्तरप्रत्ययभावेऽप्यनलानुमितेरदर्शनात् । तथाहि-यानपात्रमारूढानां समुद्रदर्शनानन्तरमेव धूममवलोकमानानां पुसां समुद्रदर्शनलक्षणसमनन्तरप्रत्ययावैशिष्ट्येऽपि कस्यचिदेव प्राग्गृहीताविनाभावस्यानलानुमितिरुदयते नतु नालिकेरद्वीपवासिन इति । अथेत्थमाचक्षीथाः-न वै तत्र समनन्तरप्रत्ययावैशिष्ट्यं, यतो विवक्षितस्य पुंसः समनन्तरप्रत्ययस्य पारंपर्येण कारणमग्निविषयमासीत् , न तु नालिकेरद्वीपवासिन इति । नन्वेवमपि यदा देवयोगादयोगुडाङ्गाराद्यग्निविषयं नालिकेरद्वीपवासिनोऽपि समनन्तरप्रत्ययस्य पारंपर्येण कारणं भवेत् तदा तस्यापि विवक्षितस्य गृहीताविनाभावस्य पुंस इव समनन्तरप्रत्ययावैशिष्ट्यात् धूमदर्शनादनलानुमितिर्भवेत्, न च भवति, तस्मान्नेदमपि साधीयः । अथोच्येत-तथापि कथमिह समनन्तरप्रत्ययावैशिष्ट्यं ? यतो नालिकेरद्वीपवासिनः केवलानलग्रहणप्रवणं विज्ञानं न तथा पारंपर्येण समनन्तरप्रत्ययकारणं यथा गृहीताविनाभावस्य पुंस इति । ननु तथेत्यस्य भापितस्य कोऽर्थः ? । केवलानलग्रहणानन्तरं धूमग्रहणभावेनेति चेत् किमिदमन्यत्तदानन्तर्य ?, केवलानलग्रहणानन्तरं हि अत्रापि उत्तरकालभावि धूमग्रहणमस्त्येव, केवलानलग्रहणानन्तरसमय एव धूमग्रहणभावस्तदानन्तर्यमिह विवक्षितं न तु प्रदीर्घकालेन धूमग्रहणभाव इति चेत् , नन्वनन्तरसमयधूमग्रहणभावोऽपि सर्वथा केवलानलग्रहणाभावे भवति, स च केवलानलग्रहणाभावे धूमग्रहणभाव इदानीमप्यविशिष्ट इत्युभयत्रापि न कश्चिद्विशेषः । यदि हि
A N-NCRACROCCALCORDCROCate
COUR
Jain Education Inte1
For Private & Personel Use Only
aw.jainelibrary.org