SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ धर्म- | संग्रहणि ॥१३०॥ तदनलविज्ञानमनलमात्रखरूपपरिच्छेदकमिष्यते, तत्पुनरनन्तरं धूमज्ञानमुपजनयत् कार्यकारणभावावसायनिवन्धनं| भवतीत्येतद्पयितुमाशङ्कते एगपडिवत्तिरूवं तं चे एत्तो इदंति वइमेत्तं । तज्जपणसहावत्तावगमम्मि यतिप्पसंगोत्ति ॥ ३०१ ॥ तत्-अनलविज्ञानमुपलक्षणत्वात् धूमविज्ञानं वा एकप्रतिपत्तिरूपं-खखविषयखरूपमात्रपरिच्छेदकमिष्यते, नतु यथाक्रमं धूमजननखभावतया वह्निजन्यस्वभावतया वा परिच्छेदकमिति चेत् ? अत्राह-'एत्तो इदंति वइमेत्तं' एवं सति तर्हि 'इतो' वः सकाशादिदं-धूमलक्षणं कार्यमुत्पन्नमिति यदुच्यते तद्वाङ्मात्रं न तु प्रमाणम् । तथाहिअनलविज्ञानं धूमविज्ञानं वा खखविषयखरूपमात्रपरिच्छेदं। परिसमाप्तव्यापारत्वादितरेतरविषयवार्त्तानभिज्ञ, ततः कथमयमवगमो यदुतास्मादिदमुत्पन्नमिति ? । 'तं च घेप्पइ तहेवे'त्यत्रैव पुनरपि दूषणान्तरमभिधित्सुराह-'तजन्ने'त्यादि' तजन्यखभावतावगमे-अग्निजन्यखभावत्वावगमे धूमज्ञानस्येष्यमाणे अतिप्रसङ्गः प्राप्नोति, अविनाभावग्रहणमन्तरेणापि धूमग्रहणमात्रादेव नालिकेरद्वीपवासिनोऽपि अनलानुमानप्रवृत्तिप्रसक्तेः, धूमस्याग्निजन्यखभावतापरिच्छेदात् । स्यादेतत् , यादृशो विवक्षितस्य पुंसः समनन्तरप्रत्ययो विद्यते न तादृशो नालिकरद्वीपवासिनोऽपि, ततस्तस्य RECORRECORRECACChotu ॥१३०॥ Jain Education in For Private & Personel Use Only O ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy