SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Jain Education गमेत्यादि' अनादिप्रवाहनिपतितोऽयं लौकिको मार्गों यथावस्तु प्रवृत्तो नान्यथा कर्तुं शक्यते, किंत्वेतद्विचार्यतेयथा कार्य युज्यते किं सत्तामात्रेण कारकत्वे ?, यथा त्वयाभ्युपगमम्यते, किंवा तद्भावपरिणमनेन ?, यथाऽस्माभिरभ्युपगम्यते, इत्येवभ्युपगमचिन्तायां प्रखुतायां किमनया लोकसंवित्त्या प्रस्तुतासंवद्धयेति । तदेवं यथा पराभ्युपगमतथा कारणस्य तत्फलजनन स्वभावता फलस्य च तत्कारणजन्यखभावता सर्वथा नोपपद्यत इत्युपपादितम् ॥ २९९ ॥ सांप्रतं 'तं च घेप्पइ तहेत्रे' सेतद्भावनार्थं यत् 'धूमजणणस्सहावमित्यादि' प्रागुक्तं तद्दूषयितुमारभते किं चाणलविण्णाणं तज्जन्नसहावधूमणाणस्स । तुति तत्थ चिंतं तपणाणं णणु तहा किह णु ? ॥ ३०० ॥ किं दूषणान्तराभ्युच्चये । धूमजननखभावानलग्राहकं विज्ञानं तज्जन्यस्वभाव धूमज्ञान (स्य- वह्निज्ञान) जन्यस्वभावधूमविषयस्य हेतुरिति यदुक्तं तत्रेदं चिन्त्यं - तज्ज्ञानम् - अनलज्ञानं तथा - धूमपरिच्छेदहेतुतया कथं भवति ?, नैव कथंचनापीतिभावः । तथाहि - यदा धूमजननखभावतया अनलग्राहकं विज्ञानमुदीयेत तदा तजन्यधूम परिच्छेदकं तज्ज्ञानं स्यात् नान्यथा, न च धूमाग्रहे तद्ब्रहणावधिकं वह्नेतजननखभावतया ग्रहणमुपपद्यते, अवध्यग्रहे अवधिमतस्तथात्वेन ग्रहणायोगात्, तत्कथं तत् अनलज्ञानं धूमपरिच्छेदहेतुरिति ॥ ३०० ॥ अथ मा निपप्तदयं दोष इति For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy