________________
xxxx
6
कानुविधानाभावे च निमित्ताभावः स्यात् तेन विवक्षितवस्तुविषयत्वं निमित्तवद्विपक्षाध्यापकानुपलब्ध्या व्याव| र्त्तमानं तदन्वयव्यतिरेकानुविधानेन व्याप्यत इति प्रतिबन्धसिद्धिरिति, तदेतदसमीचीनं, प्रत्यक्षज्ञानेऽप्येवमवि|पयत्वप्रसक्तेः तथाहि यथा जलवस्तुनि पुरतो विद्यमाने जलोलेखि प्रत्यक्षमुदयते, तथा जलवस्त्वभावेऽपि मरीचिकाखक्षुण्णजलप्रतिभासं तदुदीयमानमुपलभ्यत एव, ततो जलाभावेऽपि जलप्रतिभासाविशेषात् सत्यपि जले जलप्रतिभासं प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्व समानमेव, अथ देशकालखरूपादिपर्यालोचनया प्रवृत्तौ तत्प्रात्यभावेन मरीचिकासु जलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्र| माणं, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वाव्यभिचार इष्यते, ततो न कश्चिद्दोष इति, तदेतदन्यत्रापि समानं, तथाहि - प्रतिपाद्यमर्थ यथास्वरूपं यः पश्यति यथादर्शनं चोपदिशति तेन तथाभूतेनाऽऽप्तेन प्रणीय|मानात् शब्दादुपजायमानं ज्ञानं प्रमाणत्वेनास्माभिरिष्यते, नेतरत् न च तस्य स्वप्रतिभासमानवस्त्वन्वयव्यतिरे| कानुविधायित्वव्यभिचारसंभवो, यत्पुनरितरत् शाब्दं ज्ञानं तत् भ्रान्तत्वादप्रमाणमप्रमाणत्वाच्च व्यभिचारास्पदमिति यत्किञ्चिदेतत् । यदपि चानन्तरमुपन्यस्तं प्रमाणं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालम्, असिद्धता च हेतोर्यथोक्ताप्त पुरुषप्रणीतस्य शब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसंभवात् इति । यत्पुनरिदमुच्यते शब्दः श्रूयमाणो वक्तुरभिप्रायं विकल्पप्रतिविम्बात्मकं तत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विवक्षितार्था -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org