________________
धर्म
संग्रहणि.
॥१८७॥
चेदि'त्याशङ्कय 'न, तस्य भवनधर्मिणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते ततो नापरकुञ्जरादेरपि भावशब्दःप्रवृत्तिनिमित्तमिति" यदुच्यते तत् प्रतिक्षिप्तं द्रष्टव्यम् , भावानुविद्धतया कथंचित्तस्या अपि भावरू-18 |पत्वाभ्युपगमात् । अन्यथा ज्ञेयत्वाद्यनुपपत्तेः । यद्येवं तर्हि भावादभावस्य विशेषाभावप्रसङ्ग इति चेत् ? । न । पूर्वापररूपव्यापत्त्यापत्तिलक्षणस्वभावभेदतो विशेषाभावप्रसङ्गाभावात् । पूर्वरूपव्यापत्तिखभावो हि घटाघभावः, अपररू-| पापत्तिखभावा च कपालाद्युत्पत्तिरिति ॥४६५ ॥ अथोच्येत-नैव काचिदन्या घटादिनिवृत्तिः किंतु कपालाद्युत्पत्तिरेव, तदनन्तरं तस्सा एवोपलभ्यमानत्वादत आह
णय सा उप्पत्ति च्चिय भिन्ननिमित्तत्ततो विरोधातो।
परिकप्पिय त्ति निच्चं अन्नत्ते पुत्वदोसा उ ॥ ४६६ ॥ न च सा-घटादिनिवृत्तिः उत्पत्तिरेव-कपालाद्युत्पत्तिरेव केवला । कुत इत्याह-भिन्ननिमित्तत्वतो विरोधात्-भिन्ननिमित्तत्वेन ऐक्यस्य विरोधात् । तथाहि-घटादिनिवृत्तेनिमित्तं घटादिखरूपव्यापत्तिरूपतया भवनस्वभावता, कपालाद्युत्पत्तेश्च तद्रूपभवनखभावतेति, कथमनयोरैक्यं ?, मा प्रापदतिप्रसङ्ग इति, न घटाधनन्तरं कपालाद्युत्पत्तिरेव केवला उपलभ्यते, किंतु तन्निवृत्तिविशिष्टा, अविगानेन सर्वेषां तथानुभवभावात् । अत्रैवाशङ्काशेष परिहर्तुमाह-'परि
॥१८७॥
Jain Education Intera
For Private & Personel Use Only
Aurjainelibrary.org