________________
तुच्छरूपा अभ्युपमाणे पूर्वोक्ता एव
खभावा एवं
कप्पिय त्ति' सा घटादिनिवृत्तिः परिकल्पिता तेनादोष इति चेत् ? । अत्राह-निचमिति' यदि परिकल्पिता ततो नित्यं भावकालेऽपि तद्भावप्रसङ्गः, कल्पनाया इच्छामात्रानुरोधित्वात् । अथ कपालोत्पत्तेरियं घटनिवृत्तिभिन्नखरूपैव तुच्छरूपा अभ्युपगम्यते नतु तदनुविद्धेत्यत्राह-'अन्नत्ते पुत्वदोसा उ' अन्यत्वे-भिन्नखरूपत्वे कपालोत्पत्तेः सकाशातस्या घटनिवृत्तरिष्यमाणे पूर्वोक्ता एव भेदाभेदादयो दोषाः प्राप्नुवन्ति । तस्मान्नान्या किंतु तदनुविद्धेति स्थितम् ।। तदेवं यतो घटादयः खहेतुभ्यः सकाशादित्थंखभावा एव समुत्पन्नवन्तो येनानुपकारिणमपि प्रतिनियतं मुद्रादिकं । सहकारिणमासाद्य विनिवर्तन्ते, तथैवोपलभ्यमानत्वात् , ततः कपालादीनामुत्पत्तिरिव घटादीनामपि निवृत्तिर्विवक्षितहेत्वन्वयव्यतिरेकानुविधानात्सहेतुकेत्युपपादितम् ॥ ४६६ ॥ सांप्रतमत्रैव पराकूतशेषं दुदूषयिषुरिदमाह
अह उ सहेउउ च्चिय उववन्नो अप्पणो विणासम्मि ।
नोवेक्खई तदन्नं हेडं निरहेउगो तेण ॥ ४६७ ॥ अथोच्येत-खहेतुभ्य एव इत्थंभूतस्वभावो घटादिरुत्पन्नो येनात्मनो विनाशे न तदन्यं-खोपादानहेत्वतिरिक्तं हेतुमपेक्षते, तेन कारणेनासौ निर्हेतुक एव न पुनर्भवत्कल्पनया सहेतुक इति ॥ ४६७ ॥ अत्राचार्य आह
किं एवं ति ? अह मती तत्तो च्चिय तस्स तस्स भावो उ।
MA-CRACC
-%80-40
-
Jain Education in
For Private & Personel Use Only
M
w w.jainelibrary.org