________________
ASANSORRECORR--
व्यवहारविलोपप्रसङ्गात् । नन्वयं दोषो भवत्पक्षेऽप्यपरिहार्य एव, तथाहि-घटादिनिवृत्तिरुत्पाद्यकपालादिवस्तुखभावरूपा। तदुक्तम् 'तस्सभावओ न तओ एगंतेणाभावो' इति, न च तदानीं घटो विद्यते, निवृत्तत्वात् , अन्यथा कपालाद्यनुत्पत्तेः, तत्कथं घटादितनिवृत्त्योस्तादात्म्यलक्षणः संवन्धो ? येन 'घटस्य नाश इत्यादिको व्यवहार उपपद्येतेति। उच्यते, इह घटवस्त्वेव कपालरूपतया परिणमति, सतः सर्वथाविनाशस्यात्यन्तासत उत्पादस्य चायोगात्, ततः कथंचिदवस्थितस्य घटवस्तुनः समुत्पद्यमानकपालपर्यायेण सह तादात्म्योपपत्तौ तत्वभावरूपया घटनिवृत्त्याऽपि सह तस्य तादात्म्यमुपपद्यत एव । स्यादेतत् , मृद्रव्यमेव न निवर्त्तते घटपर्यायवस्तु सर्वात्मना निवर्तत एव, तत्कथं । तस्य तन्निवृत्त्या सह तादात्म्यं घटत इति ? । नैष दोषः। मृद्रव्यवत् तस्यापि कथंचिदनिवर्तनात् , तथा प्रत्यक्षतोड-| नुभवात् । तथाहि-घटकपालानि केवलान्यपि दृष्ट्वा लोकस्तद्गतोांद्याकारानुवृत्तिदर्शनात् 'घटस्यामूनि कपालानि न शरावादीनामिति' विवेचयन् दृश्यत इति । उक्तं च-तम्मि य अणियत्तंते न नियत्तइ सवहा सो वित्ति' । घटादिनिवृत्तेर्वस्तुधर्मत्वानभ्युपगम एव दोषान्तरमाह-'सुन्नं वा' इति, यदि हि घटादिनिवृत्तिरेकान्तेन तुच्छरूपा स्यात्
ततो न घटात् अनन्तरमेव कपालोत्पत्तिर्भवेत् , किंतु शून्यं, न चैतदुपलभ्यते, निर्व्यवधानं घटात् कपालोत्पत्तेर्दर्श-16 मनात् । तस्मादियं घटादिनिवृत्तिनैकान्तेन तुच्छरूपा किंतूत्पाद्यमानकपालादिवस्तुस्वभावा, तथा च सति भवनधर्म
कत्वाविरोधान्न तत्र कारकव्यापारासंभवः । एतेन "तस्यापि नाशस्याभूत्वा भावोपगमात्कार्यता न विरुध्यत इति
CROCARRANA
निवृत्तेर्वस्तुधर्मत्वानभ्युपगम ए
-
किंत शून्यं, न चैतदुपलभ्यत,
तथा च सति भवन
-----
धर्म.३३
For Private & Personel Use Only
O
ww.jainelibrary.org